________________
अनध्यवसायः ] न्यायप्रकाशसमलङ्कृते .
: ४७५ : परोक्षविषयमनध्यवसायमाह
परोक्षविषयस्तु गोजातीयपरिज्ञानविधुरस्य विपिननिकुञ्ज सास्ना. मात्रदर्शनेन सामान्यतः पिण्डमात्रमनुमाय प्रदेशेऽस्मिन् कोऽयं प्राणीति विशेषानुल्लेखि ज्ञानम् । अनिश्चितानेककोटिविषयकस्संशयः । सर्वथा कोट्यविषयकोऽनध्यवसाय इत्यनयोर्भेदः । तथाऽनवस्थितानेकांशाप्रका- 5 रके वस्तुन्यनवस्थितानेकांशप्रकारकत्वावगाहनात्संशय आरोपरूपः । अनध्यवसायस्य संशयविपर्ययात्मकारोपेण सहायथार्थपरिच्छेदकत्वसाम्यादारोपरूपत्वमुपचारवृत्त्या भाव्यम् ॥ इत्यारोपनिरूपणम् ॥
परोक्षेति । गोजातीयपरिज्ञानविधुरस्येति, गोज्ञानविधुरस्य द्वीपान्तरवासिन इत्यर्थः । विपिननिकुञ्ज इति, देशान्तरमायातस्य कस्मिंश्चिदरण्यलतासमूह इत्यर्थः, सास्नामात्रदर्शने- 10 नेति, प्राण्यविनाभूतसास्नामात्रावलोकनेनेत्यर्थः, पिण्डमात्रमनुमायेति, प्राणिमात्रमनध्यवसायधर्मिणमनुमायेत्यर्थः । मात्रपदेन प्राणिविशेषनिर्णयाभावः प्रकाशितः, अनध्यवसायज्ञानाकारमाह प्रदेशेऽस्मिन्नित्यादिना । विशेषानुल्लेखीति, जातिविशेषाविषयकमित्यर्थः । ननु संशयो यथा विशेषानवधारकस्तथानध्यवसायोऽपीति कथं संशयतोऽस्य भेदो येन त्रैविध्यमारोपस्य स्यादित्यत्राहानिश्चितेति, अस्ति तयोर्लक्षणभेदोऽनवधारितानेककोटिविषयको हि 15 संशयः, अनध्यवसायस्तु सर्वथा विशेषोल्लेखविधुर इति भावः । सर्वथा कोट्यविषयक इति, सर्वथा विशेषकोट्यविषयक इत्यर्थः । तेन प्राणित्वस्योल्लेखेऽपि न क्षतिः । नन्वतत्प्रकारके वस्तुनि तत्प्रकारकत्वज्ञानमारोप इति लक्षणं विपर्ययेऽन्यथास्थितवस्त्वेककोटिप्रकारकनिश्चयरूपे सङ्गतमेव, किन्त्वारोपविलक्षणयोस्संशयानध्यवसाययोः कथमारोप. रूपतेत्याशङ्कायामाह तथेति, एवञ्च संशये आरोपविलक्षणत्वमेवासिद्धं, वस्तुतोऽनेककोट्य. 20 प्रकारके वस्तुनि स्थाण्वादावनेककोटिगोचरत्वादित्याशयेनाहानवस्थितेति, तथा चारोपरूपत्वेऽपि विपर्ययस्यैककोटिविषयकत्वात्संशयस्य च नानाकोटिविषयकत्वाद्भेदेनोल्लेख इति भावः । नन्वेवं तर्हि कोटिविशेषविधुरस्यानध्यवसायस्य कथमारोपता, कथमपि तल्लक्षणाननुवृत्तेरित्यत्राहानध्यवसायस्येति, यथा हि सिंहनिष्ठशौर्यादिगुणसदृशशौर्यादिगुणयोगतो माणवके सिंहत्वं सिंहशब्दश्वोपचर्यते सिंहो माणवक इति, तथैव विपर्ययसंशयात्मकारोप- 25 निष्ठायथार्थपरिच्छेदकत्वरूपगुणसदृशायथार्थपरिच्छेदकत्वगुणयोगेनारोपत्वमारोपशब्दश्वोपचर्यतेऽनध्यवसाय आरोप इतीति भावः । एतेन संशयविपर्यययोरेव वस्तुत्वं नत्वनध्यवसाय
१. संशयस्यानेकांशानवस्थितप्रतिभासरूपत्वात् विपर्ययस्य च विपरीताकाराध्यवसायस्वरूपत्वाद्वस्तुत्वं, अन