________________
:४७२: तस्वन्यायविभाकरे
[ अष्टमकिरणे तद्विषयकप्रत्यभिज्ञानस्य बाध्यबाधकभावस्य चानुपपत्तेश्च भिन्नविषययोस्तदसम्भवात् । ननु ज्ञानानां कोऽयं बाध्यबाधकभावः, सहानवस्थानं वा वध्यघातकभावो वा विषयापहारो वा फलापहारो वा, नाद्यः, सम्यक्प्रत्ययेनेव मिथ्याप्रत्ययेनापि सम्यक्प्रत्ययस्य बाधा.
पत्तेः सहानवस्थानाविशेषात् । अत एव न द्वितीयः, उभयोर्वध्यघातकभावाविशेषात् । 5 नापि तृतीयो विषयस्य प्रतिपन्नत्वेनापहाससम्भवात् । प्रतिपन्नस्याप्रतिपन्नत्वबोधकतया बाधकज्ञानस्यानुत्पादाच्च । नापि चरमः, उपादानादिज्ञानस्य प्रमाणफलस्योत्पन्नत्वेनापहरणासम्भवात् , नहि यदुत्पन्नं तदनुत्पन्नमित्यभिदधाति बाधकः । किश्च तुल्यविषययोर्बाध्यबाधकभावो भिन्नविषययोर्वा स्यात् । नाद्यः धारावाहिज्ञानानां बाध्यबाधकभावप्रसङ्गात् ।
नान्त्यः, घटपटज्ञानयोरपि बाध्यबाधकभावापत्तेरिति चेदुच्यते प्रतिपन्नविषयस्यासत्त्वप्रति10 पादकत्वेन विषयापहारकस्यैव बाधकत्वमिति । तत्रापीदानीमुपनतस्यैवासत्त्वं न ख्याप्यते
किन्तु तदैव तस्यासत्त्वम्, न च प्रथमज्ञानेन तदानीं तस्य सत्त्वस्य गृहीतत्वेन तदैव तत्र बाधकेनासत्त्वस्य ख्यापने स्वरूपेणैव तस्य सदसत्त्वापत्तिविरुद्धा प्रसज्यत इति वाच्यम् , पूर्वप्रतिपन्नाकारोपमर्दद्वारेण बाधकप्रत्ययोत्पत्तेः, यन्मया तदा रजतमिति प्रतिपन्नं तद्रजतं
न भवत्यन्यदेव तद्वस्त्विति, न च ज्ञानानां स्वस्वकालनियतत्वेनोत्तरज्ञानं पूर्वज्ञानोत्पाद15 कालावच्छिन्नतद्विषयाभावप्रतिपत्तौ कथं समर्थमिति काच्याम् , स्वसामग्रीतस्तथैवोत्तरस्य बाधकप्रत्ययस्योत्पद्यमानस्य प्रतीतेरित्यलमधिकेन ॥
नन्विदं रजतमिति ज्ञानमित्यत्रेतिशब्दः प्रकारार्थोऽभिमतः । तथा चैवं प्रकारं ज्ञानं विपर्यय इति तद्भावार्थः, प्रकारता च प्रत्यक्षादिरूपेण, तत्र पूर्वोदितमुदाहरणन्तु प्रत्यक्षवि
षयमनुमानादिविषयको विपर्ययः कीदृक्ष इत्यनुयोगे त्वाह20 एवं बाष्पधूलीपटलादौ धूमभ्रमावह्निविरहिते देशे वयनुमानमयं
देशो वह्निमानिति । क्षणिकाक्षणिके वस्तुनि बौद्धागमात्सर्वथा क्षणिकत्वज्ञानं, भिन्नाभिन्नयोर्द्रव्यपर्याययोर्नैयायिकवैशेषिकशास्त्रत एकान्तभेदज्ञानं, नित्यानित्यात्मके शब्दे मीमांसकशास्त्रत एकान्तनित्यत्व
ज्ञानमित्यादीनि विपरीतोदाहरणानि ॥ 25. एवमिति । न केवलं प्रत्यक्षविषय एव विपर्ययोऽनुमानादिविषयोऽपि स इत्येवंशब्द
तात्पर्यार्थः । अनुमानविषयविपर्ययमाह बाष्पधूलीपटलादाविति, आदिना नीहारादिन
१. यन्मया पूर्व रजतत्वेन ज्ञातं तदेवेदं शुक्तिकाशकलमिति प्रत्यभिज्ञानं, नेदं रजतमपितु शुक्तिकेति ज्ञानस्य भिनविषयकत्वेन बाधकत्वमपि न स्यादिति भावः ॥