________________
विपर्ययः ] न्यायप्रकाशलमलहते.
: ४७१ : यदेव प्रतीताववभासते तदेव रजतमालम्बनतया वाच्यं रजतश्च तत्रासदेवेत्यसत्ख्यातिरेवाss याता न विपरीतख्यातिरित्याशङ्कायामाह
अत्र हि स्मरणोपढौकितं रजतं तद्देशतत्कालयोरविद्यमानमपि दोषमहिम्ना सन्निहितत्वेन भासत इति विपरीतख्यातिरूपमिदम् । स्मरणश्च चाकचिक्यादिसमानधर्माणां शुक्तौ दर्शनाद्भवति ॥
5 अत्रेति । इदं रजतमिति भ्रान्तावित्यर्थः, रजतं भासत इति योजना, तेन रजतमेवालम्बनमित्युक्तम् , ननु तदानीमसत्ख्यातित्वं स्यादित्यात्राह तद्देशतत्कालयोरविद्यमानमपीति, यदा यस्मिन् तज्ज्ञानं भवति तद्देशतत्कालयोरविद्यमानमपीत्यर्थः, एतद्देशकालावच्छेदेनैव तस्याविद्यमानत्वं न तु देशान्तरे कालान्तरेऽपीति यावत् । तथा च देशान्तरादौ रजतस्य । विद्यमानत्वं फलितम् , असत्ख्यातिवादो हि सर्वथाऽसतोऽर्थस्य प्रथने स्यान्न चात्र तथेति 10 नासत्ख्यातिप्रसक्तिरिति भावः । ननु तत्राविद्यमानस्य रजतस्य नयनासनिकृष्टत्वेन कथं भानं भवेदित्यत्राह दोषमहिम्नेति, तथा चातद्देशकालस्यापि रजतस्य दोषमहिम्ना सन्निहितत्वेन प्रतिभासनं नानुपपन्नमिति भावः । दोषमहिम्ना तथाभासमानत्वादेव प्रतीतेरस्या विपरीतख्यातिरूपतेत्याशयेनाह इति विपरीतख्यातिरूपमिदमिति, अस्मादेव हेतोरिदं ज्ञानं विपरीतख्यातिरूपमित्यर्थः । ननु दोषमहिम्ना यद्यतद्देशकालयोरपि भानं तर्हि जगतोऽपि 15 ग्रहणं स्यादित्यत्राह स्मरणोपढौकितमिति, स्मरणेनोपस्थितं रजतमेव न तु विश्वं, चेतसि परिस्फुरतः पदार्थस्य बहिरवभासनं हि उपस्थानं, चेतसि च न सर्व परिस्फुरतीति भावः । कथं न विश्वस्य स्मरणमित्यत्राह स्मरणश्चेति, सादृश्यविशिष्टार्थदर्शनेन हि स्मरणं भवति सादृश्यश्च चाकचिक्यादिकं शुक्तिकारजतयोरेव न विश्वस्य, अतस्समानधर्मदर्शनेन स्मरणं रजतस्य, तेन च रजतमेवोपस्थापितं न विश्वमिति भावः, एवश्च संवेदनात्पृथग्भूतस्य 20 पदार्थस्यात्र परिस्फुरणान्नात्मख्यातिरत्यन्तासतः प्रतिभासाभावाच नासत्ख्यातिरिति ज्ञेयम् । ननु रजतमिदमित्यादिज्ञानस्य प्रत्यक्षरूपत्वेन स्मरणानपेक्षत्वात्कुतस्तदुपस्थापितार्थावभासित्वमिति चेन्न, अस्य प्रत्यक्षाभासत्वेनैवंविधपर्यनुयोगानास्पदत्वात् ॥
अत्र वृद्धाः, संवृतस्वाकारा समुपात्तकलधौताकारा शुक्तिकैवालम्बनं तज्ज्ञानस्य, त्रिकोणत्वादिस्वविशेषाहणाभावात् , चाकचिक्यादिसमानधर्मदर्शनजन्यरूप्यस्मरणारोपितरूप्या- 25 कारत्वाच्च । न च रजताकारज्ञानस्य कथं शुक्तिका विषय इति वाच्यम् , अङ्गुल्यादिना निर्दिश्यमानस्य कर्मतया ज्ञानजनकस्यैवालम्बनत्वात्, अन्यथा प्रकृतज्ञानेन साऽनपेक्षणीया भवेत् । अपेक्षणीया च सा, अन्यथा तदसन्निधानेऽपि प्रकृतज्ञानोत्पादापत्तेः, उत्तरकालं