________________
तस्वन्यायविभाकरे
[ अष्टमकिरणे पत्तेनियामकाभावात् , वासनाया एव रजतदेशकालादीनामसतामवभासे नियामकत्वे चासत्ख्यात्यापत्तेश्चेति ॥ .
वेदान्तिनस्तु अनिर्वचनीयख्यातिमाहुस्तथाहि नात्र शुक्तौ भासमानं रजतं सत्, तथात्वे तद्धास्तवरजतबुद्धिवदभ्रान्तत्वं स्यात् , असत्त्वे तु तस्य गगनारविन्दवत्प्रतिभासप्रवृत्त्यो5 रविषयत्वप्रसङ्गः, सदसद्रूपत्वे तूभयपक्षोपक्षिप्तदोषानुषङ्ग इत्यनिर्वचनीयमेवेदमिति, तदपि
न सुन्दरम् , शुक्तौ रजतभ्रमे विषयभूतशुक्तिशकलस्य स्वपररूपाभ्यां सदसद्रूपस्याव्याहतत्वात् , न च तस्य रजतप्रकारिताकत्वे किं नियामकमिति वाच्यम् , विशेषणज्ञानस्य तादात्विकशुक्तिपरिणामविशेषस्यैव वा नियामकत्वात् , अर्थेनैव धियां विशेषात् , न च
कुतो न विलक्षणरजतोत्पाद इति वाच्यं तदुत्पादककारणाभावात् नहि परिणामिकारणादि10 सामग्री विना कार्योत्पत्तिः क्वचिदपि दृष्टा । न च शुक्रज्ञानमेव प्रतीयमानरजतस्य
कारणमिति वाच्यं तस्य परिणामिकारणत्वायोगात् तत्तत्पर्यायपरिकरितद्रव्यस्यैव परिणामिकारणत्वात् , अज्ञानपर्यायाविष्टमात्मद्रव्यमेव तत्परिणामिकारणमस्त्वित्यपि न चारु, चेतनस्याचेतनं प्रति कथमपि परिणामिकारणत्वानुपपत्तेः । न च सम्यग्ज्ञानप्रागभावमि
ध्याज्ञानान्यतरभिन्नं मायाऽविद्यादिशब्दवाच्यं वस्त्वन्तरमेवाज्ञानमनिर्वचनीयरजतहेतुरिति 15 वाच्यं तादृशे मानाभावात् । नापि शुक्त्यज्ञानं रजतहेतुः तस्य पाषाणादावपि सत्त्वेन
देशनियमाभावात् । न चेदन्त्वावच्छेदेन शुक्त्यज्ञानमिदन्त्वावच्छेदेन रजतहेतुरिति वाच्यम् , दोषाभावकालेऽपि तस्मात्तत्प्रसङ्गात् दोषस्याप्यपेक्षणे चेदमंशावच्छेदेनाज्ञानान्तरस्योदासीनस्य च हेतुत्वं दुर्निवारमिति यत्किश्चिदेतत् ॥
ननु तर्हि रजतमिदमिति भ्रान्तेरालम्बनं किम् ? रजतं वा स्याच्छुक्तिकाशकलं वा, 20 नाद्यः, असत्ख्यातेरेव प्रसङ्गात् विषयभूतं हि रजतं तत्रासत् । न चान्यत्र सत एव तत्र
भानानासत्ख्यातिरिति वाच्यम् , तथा सतीदं रजतमित्युल्लेखेन ज्ञानानुदयप्रसङ्गात् विप्रकृष्टे रजते चाक्षुषज्ञानासम्भवात् अन्यथा सर्वत्र चाक्षुषज्ञानोत्पादप्रसङ्गेन चक्षुषो जगन्मात्रग्राहकत्वापत्तेः । न द्वितीयः, रजताकारतयोत्पद्यमानत्वासम्भवात् । अन्याकारज्ञानस्यान्यविषय
कत्वासम्भवात् । प्रतीतेश्शुक्तिकाविषयकत्वे भ्रान्तित्वासम्भवाच्च । न च रजतस्य प्रतिभा25 सेऽप्यालम्बनमन्यदेवेति वाच्यम् शुक्तिकाया अप्रतिभासमानत्वेनालम्बनत्वायोगात्, न च
सन्निहितत्वाद्भवत्यालम्बनमिति वाच्यम् , सन्निहितानामन्येषामप्यालम्बनत्वापत्तेः । तथा च
१. संवृतस्वाकारसमुपात्तरजतरूपापत्तिपरिणामविशेषस्येत्यर्थः ॥ २. सम्यग्ज्ञानप्रागभावो वा मिथ्याज्ञानं वा कारणमस्त्वित्यत्राह तत्तस्पर्यायेति ॥