________________
विपर्यवः ]
न्यायप्रकाशसमलङ्कृते प्रमाणसिद्धिमर्थस्य प्रसिद्धत्वायोगात् , अन्यथा भ्रान्ताभ्रान्तव्यवस्थासमुच्छेदप्रसक्तेः, नहि संवेदनमिदं भ्रान्तमिदमभ्रान्तमिति निर्णयो निमित्तमन्तरेण कत्तुं शक्यते, सर्वेषामेव यथावस्थितवस्तुव्यवसायित्वात् । प्रतिभाससमये वस्तुनो विद्यमानता किं देशान्तरे शुक्तिकादेशे वा, आद्येऽन्यथाख्यातेरेव नामान्तरत्वापत्तिः दोषमहिम्ना तत्र स्थितस्य शुक्तिदेशे भानाभ्युपगमात् । अन्यथा तत्रैव प्रतिभासस्स्यात् । द्वितीये चोत्तरकालेऽपि तस्य प्रतिभासापत्तेः 5 नहि जलबुद्दवदस्य क्षणिकत्वं किञ्चित्कालं स्थिरत्वात् । नेदं रजतमिति बाधकज्ञानस्य शुक्तिकादेशे रजतनिषेधकस्य प्रवर्त्तमानत्वादत्र तस्य विद्यमानत्वासिद्धेश्चेति ॥
अन्ये तु शुक्तिकायां रजतं यच्चकास्ति तस्य बाह्यतया प्रतिभानं न संभवति, बाधकप्रत्ययेन तद्बाह्यतायाः प्रतिषेधात् ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात् बहिरिव परिस्फुरतीत्यात्मख्यातिरेवेयमित्याहुः, तेऽपि न प्रेक्षावन्तः, नेदमिति बाधकेनान्यत्र वर्त्त- 10 मानस्य रजतादेश्शुक्तिकादेशस्थत्वस्यैव बाधनेन तद्बाह्यतामात्रस्याबाधनात् । नाप्यात्मा वासनया बहिरिव परिस्फुरतीति युक्तम् , तथाहि सा वस्तुस्वरूपा, अवस्तुस्वरूपा वा, नान्त्यो गगनकुसुमायिततया तस्या रजतव्यवस्थापकत्वासम्भवात् न प्रथमो ज्ञानाद्भिन्नत्वे तस्यास्त्वदभ्युपगतज्ञानाद्वैतक्षते ज्ञानाभिन्नत्वे ज्ञानाकारो ज्ञानाकारमाहात्म्यावहिरिव प्रतिभासत इत्युक्तं स्यात् , तथा च सति तदेव साध्यं साधनमित्यविशेषप्रसङ्गः, ततो न वासना 15 युक्तिमती । ज्ञानाकारस्यैव रजतस्य संवेदने चाहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात् । न त्विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छुकिनिष्ठतया प्रतिभासत इत्यभ्युपगमे चान्यथाख्यात्यङ्गीकारापत्तिः स्यात् , न च भ्रान्तयः स्वाकारमेव रजतादिकं बहीरूपतया प्रकाशयन्तीति वाच्यम् , प्रमाणाभावात् , अनुभवस्य रजतज्ञानाकारासाक्षित्वात् , इदन्तया कलधौतस्यैव भासकत्वात् शुक्तिकायां रजताकारता- 20 प्रतिषेधकत्वेन च बाधकज्ञानस्यापि तत्राप्रमाणत्वात् । न च रजते पुरोवर्त्तिशुक्त्याकारत्वस्य प्रतिषेधेऽर्थतो बोधाकारत्वस्य सिद्धिरिति वाच्यम् , तत्प्रतिषेधेऽर्थतो देशान्तरसत्त्वस्यैव सिद्धेः, दृष्टातिक्रमेणादृष्टज्ञानाकारत्वकल्पने बीजाभावात् , नेदं रजतमपि तु शुक्तिकाशकलमित्युल्लेखेन निषेधानुपपत्तेः, तव मते शुक्तिकायां रजतस्याप्रसक्तत्वात् शुक्तिरियं मया रजतत्वेन ज्ञातेति प्रत्यभिज्ञानुपपत्तेः, आन्तरं कलधौतं बहीरूपतया ज्ञातमिति प्रत्यभिज्ञाया 25 एवापत्तेः । ज्ञानस्य बाह्यार्थाविषयकत्वे रजताकारोल्लेखेनेव नीलाद्याकारोल्लेखेनापि प्रवृत्त्या
१. नहि तत्प्रकारतया प्रतिभासमात्रेण तस्य तत्प्रकारकत्वमेव स्वीकर्तुं युज्यते, भ्रान्त्युच्छेदापत्तेरिति भावः ॥ २. रजतानुभवस्येत्यर्थः, स हि रजतमिदन्त्वेनैव बोधयति, न तु ज्ञानाकारत्वेन, येन प्रमाणं भवेदिति भावः । तत्र बाधकप्रत्ययोऽपि न प्रमाणमित्याह शुक्तिकायामिति ॥