________________
तत्त्वन्यायविभाकरे
[ अष्टमकिरणे नवा रजताकारतया शुक्तिर्विषयः, अन्यस्थान्याकारेण दुर्घहत्वात्ततोऽयमख्यातिरूप एवेति, तन्न, भ्रान्तेनिर्विषयकत्वे भ्रान्तिसुषुप्तावस्थयोरभेदप्रसङ्गात् , अर्थभानाभानाभ्यां हि तयोविशेषाद्भेदो वाच्यः, स एव त्वया नाभ्युपगम्यत इति, तस्य ज्ञानस्य निर्विषयत्वेऽख्याति
रूपत्वस्याप्यसम्भवाच्च, स्वरूपेण पररूपेण वा कस्यापि ततोऽप्रतिभासे रजतज्ञानमिति 5 व्यपदेशासम्भवाञ्चेति ॥ बौद्धास्तु तस्यासत्ख्यातित्वमाचक्षते तथाहि रजतमिदमिति
प्रतीयमानं वस्तु ज्ञानं वा स्यादर्थो वा, न प्रथमः, अहं रजतमित्यहत्वसामानाधिकरण्येनाप्रत्ययात् ज्ञानस्यान्तर्मुखाकारत्वात् । तन्निष्पाद्यार्थक्रियाभावेन द्वितीयोऽपि पक्षो नोचितः वितथज्ञानविषयीकृतस्य वस्तुनो बाधकज्ञानेनार्थताया बाध्यमानत्वाच्च, तस्मादसदेव तत्तत्र
प्रतिभातमिति, तदपि न युक्तम , रजतत्वव्यपदेशासंभवात् , देशान्तरे विद्यमानस्यास्य 10 प्रथनरूपत्वेऽसत्ख्यातित्वस्य विपरीतख्यातित्वप्रसङ्गात् , सर्वथाऽसतोऽर्थस्य प्रथनरूपत्वे च
शशविषाणस्यापि प्रतीतिप्रसङ्गात्, असतस्सद्रूपेण प्रथनत्वस्यापि विपरीतख्यातेरनुल्लंघनात् न च रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति वाच्यम् , विषयतायास्सद्वृत्तित्वव्याप्यत्वात् अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः। रजतमि
दमिति भासमाने वस्तुनि ज्ञानत्वार्थत्वद्वयविकल्पोऽपि न युक्तः, आद्यविकल्पानभ्युपगमात् , 15 द्वितीयस्य चेष्टत्वात् , अर्थविशेषप्रयुक्तार्थक्रियाविशेषवैधुर्येऽपि तत्सामान्यनिबन्धनाभिलाप
प्रवृत्त्यादिरूपार्थक्रियायास्तत्राव्याहतत्वात् , एवं तर्हि कथं नार्थनिश्चयः इति चेन्न, अर्थविशेषप्रयुक्तार्थक्रियाकारिण एवार्थव्यवसायात्मकत्वात् । बाधकप्रत्ययेनापि न तद्विषयस्यार्थत्वमपोद्यते, किन्तु मिथ्याज्ञानस्य मिथ्यात्वमेव प्रकाश्यते, ततो नासत्ख्यातिः प्रमाणसहेति ॥
अपरे त्वत्र प्रसिद्धार्थख्यातिमाहुः विपर्ययज्ञाने हि प्रसिद्धस्यैवार्थस्य भानं, न च तद्वि20 षयस्याविद्यमानत्वं विचारासहत्वादिति वाच्यम् , प्रतीतिव्यतिरेकेणान्यस्य विचारस्या
नुपपत्तेः प्रतीतिबलेनैव हि करस्थमुक्ताफलादेर्व्यवस्था । तां चात्रापि प्रवर्त्तमानां केन हि निरोद्धं शक्यते । न चोत्तरकाले तत्प्रतिभासाभावेन तद्विषयस्यासत्त्वमिति वाच्यम् , तदानीं तद्विषयस्याभानेऽपि पूर्वप्रतिभासकाले तस्य विद्यमानत्वात् , अन्यथोत्तरकाले तोयबुद्धदादीनामप्रतिभासनेन पूर्वप्रतिभाससमयेऽप्यविद्यमानताप्रसङ्गादिति, मनोरमं न तत् , अन्तरा
१. ज्ञानातिरिक्तबाह्यार्थानुपपत्तौ च तदंशे सत्ख्यातिरेव स्यादिति ज्ञानवाद्यभ्युपगतासख्यातिरेव स्यान्नत्वख्यातिरिति स्वसिद्धान्तभङ्गोऽपि स्यादित्यपि बोध्यम् ॥ २. इदं रजतमिति बहिर्मुखतयैव प्रतिभासनादिति भावः ॥ २. यो यस्मिन् देशे सत्तामनुभवति तस्य तत्रैव प्रतिभासनं युक्तं, नहि स्तम्भदेशे कुम्भः प्रतिभासत इति भावः ॥