________________
विपर्ययः ]
न्यायप्रकाशसमलङ्कृते
रजताभावः परन्तु दोषमहिम्ना नावगत इति युक्तम् दोषस्य शुक्तिनिष्टभेदप्रहप्रतिबन्धकत्वकल्पनापेक्षया रजततादात्म्यग्रहहेतुत्वकल्पनाया एव न्याय्यत्वात् । नापि तृतीयः, स्मर्यमाणे रजते व्यावर्त्तकधर्मस्य रजतत्वस्यैव भानात् तस्य व्यावर्तकत्वं पुरोवर्त्तिन्यविद्यमानत्वात् तस्य च तत्र भाने विपरीतख्यातिप्रसक्तेः । अथ गृह्यमाणास्मर्यमाणस्य व्यावर्त्तकधर्मेऽवगतेऽपि स्मर्यमाणाद्गुह्यमाणस्य स नावगतः, शुक्तिकायां प्रति 5 भासमानैश्शुक्लत्वादिभिर्न हि सा व्यावर्त्तयितुं शक्यते, तेषां रजतेऽपि सत्त्वादिति चेन्न, देशकालाबस्थाशून्यतया स्मर्यमाणाद्रजतात् पुरोवर्त्तिनोऽनुभूयमानस्य व्यावर्त्तकानां देशकालावस्थाविशेषाणां प्रतीयमानत्वात् । नापि बाधकप्रत्ययो विवेकं प्रकाशयतीदमन्यद्रजतमन्यदिति, बाधकप्रत्ययेन प्रसक्तरजतत्वाभावस्यैवावगाहनात् न हि सोऽप्रसक्ताविविक्तत्वाप्रतिषेधेन विविक्तत्वमवगमयति, अन्यथा चामीकरादीनामपि प्रतिषेधं कुर्य्यात् । रजता - 10 दिविषयकस्वप्ने स्मरणत्वेनाग्रहे रूपान्तरत्वेन च ग्रहे विपरीत ख्यात्यापत्तिः, सर्वात्मनाऽग्रहणस्य ग्रहणविरुद्धत्वञ्च स्यात् । चन्द्रद्वयवेदनमपि न दोषाश्चन्द्रैकत्वाग्रहरूपम्, चन्द्रैत्वाग्रहेऽपि द्वित्वानुभवानुपपत्तेः, न च नयनसमाश्रितद्वित्वा संसर्गाग्रह एव चन्द्रे द्वित्वह इति साम्प्रतम्, परोक्षस्य तस्योपस्थित्यभावात् । अनवगतेन्द्रियवृत्त्यैव सर्वत्र रूपादीनां बोधात् । एतेन तिक्ता शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशर्कराग्रहभेदाग्रह - 15 निमित्तत्वं प्रत्युक्तम्, अगृह्यमाणतिक्तत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसनगतस्य विपरीतप्रत्ययोत्पादकत्वात्, सर्वानुभूयमानसामानाधिकरण्यानुपपत्तेश्च । किश्वेद रजतमिति यदि ज्ञानद्वयं तदा तयोः सहैवोत्पादः क्रमेण वा नाद्यः सहज्ञानद्वयोत्पत्यनभ्युपगमात् न द्वितीयः प्रत्यक्षात्पूर्वं संस्कारस्यानुद्बोधेन स्मरणासम्भवात् प्रत्यक्षादुत्तरं रजतस्मरणे च प्रत्यक्षादनन्तरं विपरीतव्यापारेऽपि चक्षुषि तदापत्तेः, तस्मात्सकललोकसिद्धं रजतात्मना 20 पुरोवर्त्तिभानं दुरपह्नवमिति ॥
: ४६७ :
केचिदिदं रजतमित्यत्र न कश्चिद्विषयतया भासते, रजतसत्ताभानेऽभ्रान्तत्वप्रसक्तेः, विधिमुखतयाऽस्य प्रवृत्तेर्न रजताभावो विषयः, अतदाकारत्वादेव च नापि शुक्तिका विषय:,
१. अत्रेदमपि बोध्यम् रजतादिविषयकस्वप्नस्य स्मृतित्वेनाप्रहे त्वयापि संवित्तेः स्वप्रकाशत्वेनाभ्युपगतत्वात्केन रूपेण भ्रानं, यदि स्मृतित्वेन तर्हि केन रूपेणाग्रहः । यदि त्वनुभवत्वरूपेण ग्रह उच्यते तदाऽन्यथाख्यातिः, स्मृतेरनुभवरूपत्वाभावात्, अथ ज्ञानत्वेन तदपि न सम्भवति ज्ञानत्वव्याप्यस्मरणत्वानुभवत्वशून्यस्य ज्ञानत्ववतः कस्याप्यभावादिति ॥ २. पुरोवर्त्तिनं पदार्थ गृहीत्वा पश्चाद्रजतं स्मरामि प्रथमं वा रजतं स्मृत्वा पश्चात् पदार्थममुं गृह्णामीति क्रमेण भवदभिमतज्ञानद्वयप्रादुर्भावस्यानुभवविरुद्धत्वादित्यर्थः ॥