________________
: ४६६ :
तस्वन्याय विभाकरे
[ अष्टम किरणे
द्रव्यगततिक्तग्रह शर्कराग्रहयोर्भेदाग्रहाद्विवेकाख्यातिः । सर्वत्रैवं सम्यगग्रहणस्यैव तदर्थत्वम्, न तु शुक्तौ रजतप्रतीतिः, ज्ञानान्तरेऽपि मिध्यात्वसम्भावनया सर्वत्रानाश्वासेन प्रवृत्त्यादि - व्यवहारोच्छेदप्रसङ्गः स्यादिति चेन्मैवम् शुक्ताविदं रजतमिति प्रत्ययस्य स्वाकारसंवरणरजतरूपापत्तिपरिणामविशेषवत्याश्शुक्तेरेवालम्बनत्वात् दुष्टेन्द्रियादीनामेव तादृशज्ञानहेतु5 त्वात् । कार्यप्रतीतौ हि न कारणाभावशङ्का युक्तिमती, प्रतीयते चात्रैकज्ञानात्मकमिदं रजतमिति कार्य, तदनुरोधेन च कारणस्य कल्पना उचिता दावानलद्ग्धवेत्रबीजात्कदलीप्रकाण्डोत्पतिदर्शनाश्च दुष्टकारणस्य स्वकार्यानुत्पादकत्वे सति विपरीत कार्यस्याप्युत्पादकत्वात् । नच दावानलो वेत्राङ्कुरे दोषरूपोऽपि कदल्यङ्कुरं प्रत्यनुकूल इति वाच्यम्, अत्रापि दोषस्य सम्यग्ज्ञाने दोषरूपत्वेऽपि मिथ्याज्ञानं प्रत्यनुकूलत्वस्य न्याय्यत्वात्, इदं रजतमिति ज्ञानं न विशि10 ष्टज्ञानं किन्तु ग्रहणस्मरणरूपं ज्ञानद्वयमित्यपि न सम्यक्, रजतार्थिप्रवृत्तिसामान्ये रजतत्वप्रकारकज्ञानस्य संवादिप्रवृत्तिस्थले समानविशेष्यताप्रत्यासत्त्या हेतुत्वेन विसंवादिप्रवृत्तिहेतोरपि मिथ्याज्ञानस्यैकत्वसिद्धेः । संवादिप्रवृत्तौ विशिष्टज्ञानं विसंवादिप्रवृत्तौ चोपस्थितेष्टभेदाग्रह इति कल्पने बीजाभावाद्गौरवाच्च । न चेन्द्रियसंस्काररूपकारणभेदात्कार्यभेद इति युक्तम्, रूप|लोकलोचनादिभिरनेकैः कारणैरुत्पद्यमानस्य घटादिसंवेदनस्याप्यनेकत्वप्रसक्तेः, न च 15 विभिन्नज्ञानसामग्रीभेदात्कार्यभेद इति वाच्यम्, इदं रजतमित्यादौ सामग्रीभेदासिद्धेः, चक्षुरादिकारणसमुदायस्यैवात्र कारणत्वात् न चास्य प्रत्यक्षस्मरणरूपज्ञानद्वयरूपत्वात्सामग्रीभेदोऽनुमेय इति वाच्यम्, अन्योन्याश्रयात् ज्ञानभेदे सिद्धे कारणभेदः, तत्सिद्धौ च ज्ञानभेद इति । कि भेदाह इत्यत्र कोऽयं भेदः, वस्तुस्वरूपमात्रं वा परस्पराभावो वा व्यावर्त्तकधर्मयोगो वा, नाद्यो विद्यमान पदार्थमा हिपूर्वानुभूतपदार्थग्राहिप्रत्यक्षस्मरणाभ्यां भेदस्य 20 गृहीतत्वात् वस्त्वभिन्नत्वाद्भेदस्य । वैपरीत्येन गृहीतमिति चेद्विपरीतख्यातिप्रसङ्गः । युष्माभिरभावानभ्युपगमादेव न द्वितीय: पक्षो युक्तः, अभ्युपगमे तु स्मृतंरजतस्य कथमत्र नाभावज्ञानम् नं च नियतदेशतयाऽवगतस्य दोषमहिम्नाऽनियतदेशत्वेनात्रावगमान्नाभावज्ञानमिति वाच्यम्, नियतदेशस्यानियतदेशत्वेन मानाभ्युपगमाद्विपरीतख्यातिप्रसङ्गात् । न च देशविनिर्मुक्तस्यैव स्मरणान्नान्यथाख्यातिरिति वाच्यम्, पूर्वावगतरजत 25 स्मरणे सति केवलाधिकरणग्रहस्यैव तव मते तदभावोपलम्भरूपत्वात्, न चास्ति शुक्तौ
"
१. विशेष्यतासम्बन्धेन रजतप्रवृत्तित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन रजतत्वप्रकारकज्ञानं कारणम् अत्र कार्यं कारणञ्च रजतेऽस्तीति समानविशेष्यताप्रत्यासत्या कार्यकारणभावः, कारणतावच्छेदकाक्रान्तं रजतत्वविशिष्ट रजतप्रमाज्ञानं रजतत्वप्रकारकयत्किञ्चिद्विशेष्यकज्ञानञ्च भवति, तस्मादेकेनैव कार्यकारणभावेनोभयत्र निर्वाह इति भ्रमात्मकैक ज्ञानस्वीकारे लाघवमिति भावः ॥