________________
विपर्ययः ]
: ४६५ :
न्यायप्रकाशसमलङ्कृ लङ्कृते
मात्र प्रकारकनिश्चयत्वाभावान्नातिव्याप्तिः विशिष्टविशेषास्पर्शित्वात्तस्य । दृष्टान्तमाह यथेति, अरजताकारायां शुक्तिकायां रजताकारतया रजतमिदमिति ज्ञानं विपर्यासरूपत्वाद्विपर्ययरूपं विपरीतख्यातिरिति भावः || अत्रेदमवधेयम्, मीमांसका भ्रमस्थले विवेकाख्यातिमाहुः, तथाहि नन्विदं रजतमित्यादिभ्रान्तत्वेनाभिमतप्रत्ययजनने को हेतुः न तावदिन्द्रियम्, तस्य पुरोवर्त्तिशुक्तत्यादावेव सम्बद्धत्वेनासन्निकृष्टरजतादिज्ञानजनने सामर्थ्याभावात्, सम्बद्धस्य 5 वर्त्तमानस्यैव तद्ब्राह्यत्वात् न च दोषसहकृतेना सन्निकृष्टेनापि तेन रजतज्ञानजनने प्रभुणा भवितव्यमिति वाच्यम्, स्वाभाविक कार्यजनन सामर्थ्यविहननेन प्रतिहतशक्तिकस्य दोषस्य विपरीत कार्योत्पत्तौ तत्सहकारित्वासम्भवात् । नहि कलुषितं गोधूमबीजादिकं व्रीह्यङ्कुरादिजननसमर्थं दृश्यते । नेतरत्किञ्चित्कारणमस्ति विनिवृत्तेन्द्रियव्यापारस्यापि तथाविधबोधोत्पत्तिप्रसक्तेस्तस्मादिदं रजतमिति प्रत्यक्षस्मरणरूपं ज्ञानद्वयमेव, इदमंशे प्रत्यक्षहेतोरिन्द्रिय- 10 सन्निकर्षस्य रजतांशे च साधारणरूपादिदर्शनेनोद्बुद्धसंस्कारस्य पूर्वानुभवजन्यस्य स्मरणहेतोस्सत्त्वात् । तत्रेदमिति ज्ञानं पुरोवर्त्तिशुक्तिकाविषयकं रजतमिति ज्ञानश्च परोक्षरजतावगाहि न रजतज्ञानस्य शुक्तिकाशकलं विषयोऽन्याकारस्या तिर्प्रसङ्गेनान्यविषयकत्वासम्भवात् । न च तत्तानवभासनेन रजतज्ञानं न स्मरणमिति वाच्यम्, तत्तारहितानामपि बहूनां स्मरणस्योपलम्भात् न च तर्हि कथमिदं रजतमित्येकज्ञानतया भानम्, न तु 15 द्वित्वेन, रजते चातीतताया नावभास इति वाच्यम्, दोषमहिम्नेदमिति ज्ञानस्य शुक्तिकात्वेन शुक्तिकाया विषयीकरणेऽसामर्थ्येन उभयसाधारणधर्मदर्शनाश्च रजतशुक्त्योस्तज्ञानयोश्च भेदाग्रहेण द्वित्वस्यातीततायाश्चाप्रतिभासनात् । न च सर्वेषामेव यथार्थज्ञानत्वे नेदं रजतमित्यादिबाधकप्रत्ययाः कस्य बाधका भवेयुरिति वाच्यम् । तेषामिदमन्यद्रजतमन्यदिति विवेकस्य प्रकाशकत्वेनैव बाधकज्ञानत्वात्, न तु रजतज्ञानस्यासत्यत्वप्रकाश- 20 कत्वेन । स्वप्नज्ञानस्यैकत्वेऽपि तस्य स्मृतित्वेनाग्रह एव विवेकाग्रहः । न च सदृशदर्शनमन्तरेण तस्य कथं स्मृतित्वमिति वाच्यम्, निद्रोपद्रुतस्य मनस एव तत्र निमित्तत्वात् । एवं चन्द्रद्वग्रज्ञाने द्विधाकृतया नयनवृत्त्या चन्द्रैकत्वाग्रहणं दोषात् तिक्ता शर्करेत्यादौ च पित्त
१. परोक्षेति पदेन रजते इन्द्रियसन्निकर्षाभावस्सूचितः, रजतस्यातिविप्रकृष्टत्वात् लिङ्गाद्यनुपलम्भेन चानुमानादिविषयत्वासम्भवाद्रजतज्ञानं स्मृतिरूपमेवावसेयम् ॥ २ तत्तज्ञाने सकलविषयप्रतिभासप्रसङ्गेन सर्वज्ञानानां समस्त विषयकत्वं सर्वेषाञ्च सर्वज्ञत्वं स्यादित्यतिप्रसङ्गः तथाऽन्याकारज्ञानस्यान्यविषयकत्वे स्त्रविषयव्यभि चारित्वेन सर्वज्ञानेषु विश्वासासम्भवात् कुत्रापि कस्यापि प्रवृतिर्निवृत्तिर्न स्यादित्यप्यतिप्रसङ्ग इति भावः ॥ ३. एकत्वेऽपि स्मृतिरूपत्वेऽपि न स्वप्नं प्रत्यक्षं, इन्द्रियव्यापाराभावात् ॥ ४, तिमिरादिदोषादित्यर्थः ॥
५९