________________
तत्त्वन्यायविभाकरे
[ अष्टमकिरणे नीलमहं संवेद्मीत्युल्लेखशेखरस्य निश्चयात्मकस्यैव प्रत्यक्षतोऽनुभूयमानत्वात् , न च शब्दरहितनीलादिपदार्थसामर्थेनोत्पत्त्या तद्रूपप्रतिभासित्वमेव तस्योचितं नत्वभिलापप्रतिभासित्वमपीति वाच्यम् , असत्यभिलापप्रतिभासित्वे निश्चयस्वभावत्वासम्भवात् , नि:
शब्दकार्थजनितत्वमात्रेण शब्दं विना कृत्यस्याभिधानासम्भवाच्च, न च नीलादिपदार्थे 5 सत्युपयोगेऽपि यदीन्द्रियजं ज्ञानमर्थ न परिच्छिन्द्यात् किन्तु स्मृतिसामर्थ्यजन्यतदर्थप्रति
पादकशब्दसंघटनं यावत्प्रतीक्षेत तदार्थग्रहणाय दत्ताञ्जलिस्स्यात् , नीलादिकं ह्यर्थमनीक्षमाणो न तत्र गृहीतसङ्केतं शब्दं स्मरत्युपयोगाभावात् , अननुस्मरन्न तं पुरोवर्तिनि पदार्थे घटयति स्मरणमन्तरेण संघटनासम्भवात् असंघटयंश्च त्वदृष्टया न निरीक्ष्यत एवार्थमिति
सुषुप्तप्रायं जगद्भवेदिति वाच्यम् , भवत्पक्षेऽप्यस्य दोषस्य तुल्यत्वात् , उत्पन्नेऽपि हि निर्वि10 कल्पके प्रत्यक्षे विधिनिषेधद्वारा विकल्पद्वयं यावन्न भवेत् तावदिदं नीलं नेदं पीतमितीदन्त
याऽनिदन्तया नियतार्थव्यवस्था न स्यात् ' यत्रैव जनयेदेनां तत्रैवास्य प्रमाणते 'ति त्वद्वचनात् । तद्व्यवस्थापकञ्च विकल्पयुगलमेव तच्च शब्दयोजनासहितमिति त्वदुक्तरीत्या जगत्सुषुप्तप्रायं स्यादिति । प्रत्यक्षस्य सविकल्पकत्वे शब्दसंपृक्तमेव स्यात्तथा च शब्दाद्वैतमतप्रवेश
इति न च वाच्यम् , स्वत एव तस्य व्यवसायात्मकत्वात् न पुनः शब्दसंपर्कापेक्षया, तद15 पेक्षायां वर्णपदव्यवसायासम्भवात् तद्व्यवसाये परस्य शब्दस्यावश्यकतायामनवस्थापत्तेरिति ।
कोऽयमारोपो यद्विरोधित्वं प्रमाणस्य स्यादित्यत्राह
अतत्प्रकारके वस्तुनि तत्प्रकारकत्वज्ञानमारोपः, स त्रिधा विपर्ययसंशयानध्यवसायभेदात् । अन्यथास्थितवस्त्वेककोटिमात्रप्रकारकनि
श्चयो विपर्ययः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ 20 अतत्प्रकारक इति । यत्प्रकारकं ज्ञानं क्रियते तत्प्रकाराभाववति वस्तुनीत्यर्थः । तं विभजते
स इति । अथ विपर्ययलक्षणमाहान्यथेति, अतदाकारे वस्तुनि तन्मात्राकारप्रकारकनिश्चय इत्यर्थः, अत्र निश्चयत्वं संशयभिन्नज्ञानत्वमेव, अनध्यवसायस्य संशयभिन्नत्वेऽपि एककोटि
१. इदमस्य नामेति गृहीतसंकेतमित्यर्थः, तदस्मरणे च इदमेतत्पदवाच्यमिति तेन नाम्ना तद्वाच्यं न योजयितुमीष्टे इत्याहाननुस्मरन्निति, न निरीक्ष्यत इति, तदेतदितिशब्देन नाभिलपितुं शक्नोतीत्यर्थः ॥ २. क्षणिकवादिमते नामजात्यादियोजनं विकल्पे कथमपि नोपपद्यते, दीर्घकालिकत्वात्तदुपयोगस्येत्यपिबोध्यम् ॥ ३. अन्यथा दृश्यस्य दर्शनेन पूर्वानुभूतनीलादिज्ञाननामविशेषयोः सह स्मरणेन प्रकृते नामयोजनासंभवस्य वक्तव्यतया सह स्मृतिद्वयस्वीकारापत्तिः स्यात् अत एव वर्णपदानां ऋमिकाणां क्रमेणैवाध्यवसायेन युगपदध्यवसानासंभवः, कथञ्चिदध्यवसाये वा नाम्नो नामान्तरेण विना स्मृत्यसंभवेन तदावश्यकतायां भवत्यनवस्थेति भावः ॥