________________
भारोपः ] न्यायप्रकाशसमलङ्कृते
:४६३: सर्वथा क्षणिकत्वे सर्वथा नित्यत्वे च तदभेदासम्भवेन प्रमाणफलव्यवस्थाविच्छेदापत्त्या प्रमाणफलाभ्यां भिन्नाभिन्न उत्पादव्ययध्रौव्यात्मकः प्रमाताऽभ्युपेय इति दर्शितः । तदेवं प्रमाणविषयफलप्रमातृणां निरूपितत्वादवसितं प्रमाणनिरूपणमित्याहेतीति ॥ . इतितपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य . तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां प्रमाणनिरूपणं
नाम सप्तमः किरणः ।
अथाष्टमः किरणः ॥ ननु यथार्थज्ञानस्य प्रमाणत्वमनुक्त्वा यथार्थनिर्णयस्य तत्त्वं कुतः प्रोक्तमित्यत्राह-...
प्रमाणश्च निश्चयात्मकमेव, आरोपविरोधित्वात् ॥ 10 प्रमाणश्चेति । निश्चयात्मकमेवेति, एवकारेण निराकारदर्शनस्य प्रमाणत्वव्यवच्छेदः कृतः, आरोपो हि संशयादिरूपो न वस्तुतथाभावग्राहकः, वस्तुतथाभावग्राहकञ्च निश्चयात्मकमेव ज्ञानं भवितुमर्हति, एवञ्च निश्चयात्मकत्वं व्यापकं व्याप्यश्च वस्तुतथाभावग्राहकत्वं, वस्तुतथाभावग्राहकं ज्ञानं प्रमाणमुच्यतेऽतस्तेन निश्चयात्मकेन भवितव्यम् , दर्शनश्च न वस्तुतथाभावग्राहकं निराकारत्वादतो न तत्प्रमाणं निश्चयात्मक- 15 श्चेति भावः । निश्चयात्मकत्वे हेतुमाह आरोपेति, वक्ष्यमाणस्वरूपस्यारोपस्य विरोधि. त्वादित्यर्थः, आरोपो ह्ययथावस्थितवस्तुग्राहकः प्रमाणञ्च यथावस्थितवस्तुप्राहकमतस्तद्विरोधित्वं प्रमाणस्य, तथा च प्रमाणं निश्चयात्मकमेव, आरोपविरोधित्वात् यत्पुनर्न निश्चयात्मकं न तदारोपविरोधि, यथा घटः, आरोपविरोधि च प्रमाणमतस्तन्निश्चयात्मकमेव । न च पक्षकदेशे प्रथमाक्षसन्निपातसमुद्भूतसंवेदनस्वरूपे निर्विकल्पकप्रत्यक्षे 20 बाधस्तस्य कल्पनाशून्यत्वेन निश्चयात्मकत्वासम्भवादिति वाच्यम् , सर्वैरेव सर्वदा सर्वत्र
१. नामजातियोजनाशून्यत्वेनेत्यर्थः । अत्र बौद्धाः स्वलक्षणरूपविषयसामर्थ्यबलेनोत्पन्नत्वानिर्विकल्पदर्शने प्रतिभासमाने स्वलक्षणरूपोऽर्थः प्रतिभासते न नामादयः, न ह्यर्थे शब्दाः सन्ति तदात्मानो वाऽर्थाः, येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्निति वदन्ति तन्न, स्वलक्षणस्य ज्ञानविषयत्वासम्भवात् ज्ञान. जनकत्वेन ज्ञानभास्यत्वे मानाभावात् , अन्यथा इन्द्रियनिष्ठज्ञानजननशक्तेरपि प्रतिभासप्रसङ्गात् न च नीलाद्यध्यवसायहेतुत्वेन दर्शनस्य नीलादिविषयत्वमिति वाच्यम् , नीलाध्यवसायहेतुत्वेन दर्शनस्य नीलविषयत्वं, तत्त्वेन च नीलाध्यवसायहेतुत्वमित्यन्योऽन्याश्रयात् । तस्याभिलापशून्यत्वेनाध्यवसायहेतुत्वासम्भवाच्च नास्ति तादृशं निर्विकल्पकमित्याशयेनाह सर्वैरेवेति ॥