________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे सुखस्य हि संसारिणि सद्वेद्यकर्मोदयफलत्वं मुक्ते तु समस्तकर्मक्षयफलत्वं प्रमाणोपपन्नं न पुन नफलत्वं, तस्मात्पारंपर्येण केवलज्ञानस्य फलमौदासीन्यमित्यभिप्रायेणाह सुखन्त्विति, तर्हि कस्य फलं सुखमित्यत्राहाशेषेति ॥ मतिश्रुतादीनाञ्चतुर्णान्तु व्यवहितं तदाह
तद्भिन्नप्रमाणानान्तु हानोपादानोपेक्षाबुद्धयः फलम् ॥ तद्भिन्नेति । केवलज्ञानभिन्नेत्यर्थः । व्यवधानेन जिहासाजनिका उपादित्साजनिका. बहिःप्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्यनिभृतज्ञानरूपा वा बुद्धयः फलमित्यर्थः । जिहा. साजनकोपादित्साजनकबुद्धिद्वारेण च हेयहानोपादेयोपादानात्मिका विरतिरपि फलम् ।
स्मृत्यजनकज्ञानरूपोपेक्षायास्तु न कथमपि मत्यादिप्रमाणफलत्वं, अवग्रहादिधारणापर्यन्तत्वा10 न्मत्युपयोगस्येति केचित् ॥
प्रमाणानां फलं प्रमाणाद्भिन्नमेवेति केचित् , परे चाभिन्नमेवेति, तत्र तत्त्वजिज्ञासायां श्रोतुस्समुदितायां तदपनोदनायाह___ फलश्च प्रमाणाद्भिन्नाभिन्नं, प्रमाणतया परिणतस्यैवाऽऽत्मनः फलत्वेन
परिणमनात्तयोः कथञ्चिदभेदः, कार्यकारणभावेन प्रतीयमानत्वाच कथ15 चिद्भेदः ॥ इति समाप्तं प्रमाणनिरूपणम् ॥ .
फलश्चेति । प्रमाणफलश्चेत्यर्थः चोऽनुक्तसमुच्चयार्थः । अनेन धर्मिनिर्देशः कृतः, प्रमाणाद्भिन्नाभिन्नमिति, साध्यधर्मनिर्देशः, प्रमाणफलत्वान्यथानुपपत्तेरिति हेतुः पूरणीयः । एकान्ततस्तयोर्भेदे प्रमाणफले इमे स्वकीये इमे च परकीये इति नैयत्यं न स्यात् , तस्मादेक
प्रमातृतादात्म्येन तयोः कथश्चिदभेदो वाच्य इत्याशयेनाह प्रमाणतयेति, यो ह्यात्मा प्रमाणा20 कारेण परिणमते स एव फलरूपतया परिणमते नान्यः, तथादर्शनात् , अन्यथा प्रमाणफलनियमो न भवेदेवेति भावः । अस्तु तर्हि तयोरभेद एवेत्यत्राह कार्यकारणभावेनेति, कुठार
च्छेदनयोरिव प्रमाणफलयोर्हेतुहेतुमद्भावेन प्रतीयमानत्वात्कथञ्चिद्भेदोऽपि स्यादर्थप्रकाशनादौ ।" हि प्रमाणं साधकतमं कारणमर्थप्रकाशस्तत्साध्यं फलमिति प्रतीयते, सर्वथाऽभेदे हि नेयं
व्यवस्था भवेदिति भावः । चशब्देनानुक्तस्यात्मनः प्रमातुस्संग्रहः । तेन प्रमाणफलयोर्यत् 25 परिणामिकारणं स प्रमाता, यदि प्रमाता न भवेन्न भवेदेव तदा प्रमाणफलयोर्भेदाभेदः,
प्रमाणाभिन्नात्माभिन्नत्वाद्धि प्रमाणफलयोरभेदो वाच्यो गत्यन्तराभावात् , तथा चात्मनोऽभावे