________________
प्रमाणफलम् ]
न्यायप्रकाशसमलङ्कृते
: ४६९ :
नानात्वेनैव भवितव्यमभेदे दृष्टान्ताभावादिति वाच्यम्, प्रदीपरस्वात्मनाऽऽत्मानं प्रकाशयतीति प्रतीतेः प्रदीपात्मनः कर्त्तुरनन्यस्य कथचित्करणस्य प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदसिद्धेः, तद्वत्प्रमाणफलयोरपि कथञ्चिदभेदसिद्धिरुदाहरणसद्भावात्, तथा सर्वथा तादात्म्येन प्रमाणफलयोर्व्यवस्था च भवितुमर्हतीति भावः । ननु केवलिनां सदा सर्वप्रमेयस्य प्रत्यक्षत्वादज्ञाननिवृत्तिः कथं फलमित्यत्राह केवलिनामपीति, ननु 5 प्रथमसमय एव केवलस्याशेषार्थ संवेदनरूपेण परिणतौ प्रदीपप्रकाशयोरिवाज्ञानध्वंससम्भवेऽपि द्वितीयादिक्षणे कथमज्ञाननिवृत्तिपरिणतिरित्यत्राहान्यथेति, तदनभ्युपगमेऽज्ञाननिवृत्तिपरिणामानभ्युपगमे, अज्ञत्वप्रसङ्ग इति, अज्ञाननिवृत्तेरभावादिति भावः तथाच प्रथमसमयेऽज्ञाननिवृत्तिः प्रथमसमयविशिष्टतयाऽऽसीत् द्वितीयादिसमये तु द्वितीयादिसमयविशिष्टतया भवतीति न फलाभावलक्षणो दोष इति भावः ॥
अथ किं तस्य व्यवहितं फलमित्यत्राह —
: केवलज्ञानस्य परम्परफलं माध्यस्थ्यं हानोपादानेच्छाया अभावात्, . तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवृत्तिः, सुखन्तु न केवलज्ञानस्य फलं, अशेषकर्मक्षयस्य फलत्वात् ॥
4
10
केवलज्ञानस्येति । माध्यस्थ्यमिति, मध्यस्थवृत्तितेत्यर्थः, उपेक्षेति भावः । हेतुमाह 15 हाति, संसारतत्कारणस्य हेयस्य हानात् मोक्षतत्कारणस्योपादेयस्योपात्तत्वाच्च सिद्धप्रयोजनत्वादिति भावः । ननु करुणावतः परदुःखजिहासोः कथमुपेक्षा, तदभावे च कथमाप्त इति चेन्न निष्पन्नयोगस्य मैत्र्यादिवर्जितसद्बोधमात्रचित्तस्य मोहविलास रूप करुणाया असम्भवात्, अन्यदुःखनिराचिकीर्षायां स्वदुःखनिवर्त्तनवदकरुणयापि वृत्तेः ननु यः स्वस्मिन् दुःखनिवर्त्तकस्स स्वात्मनि करुणावान् यथाऽस्मदादिः तथा च योगी स्वदुःखनि- 20 वर्त्त इति प्रयोगेण दयालोरेवात्मदुःखनिवर्त्तकत्वं इति चेन्न स्वभावतोऽपि खपरदुःखनिवर्त्तकत्वोपपत्तेः प्रदीपवत् । नहि प्रदीपः कृपालुतयाऽऽत्मानं परं वा तमसो दुःखहेतोर्निवर्त्तयति किन्तु स्वभावादेव, ततो निश्शेषान्तरायक्षयादभयदानं प्रक्षीणावरणस्यात्मनः स्वरूपमेव परमा दया, सैव च मोहाभावाद्रागद्वेषयोरप्रणिधानान्माध्यस्थ्यमिति भावः । नन्वेवं कथं तस्य हितोपदेशे प्रवृत्तिरिष्टसाधनताज्ञानस्य तद्धेतुत्वाद्योगिन इष्टाभावादित्यत्राह तीर्थ- 25 करत्वेति, हितोपदेशप्रवृत्तिरिति, तया परदुःखनिराकरण सिद्धिरिति भावः । ननु केवलज्ञानस्य सुखमपि फलमन्यथा ' केवलस्य सुखोपेक्षे ' इति पूर्वाचार्यवचनविरोधो दुष्परिहर इति चेत्सत्यं, किन्तु न सहृदयक्षोदक्षमोऽयं केवलज्ञानस्य सुखफलत्वपक्ष इत्युपेक्षितः ।