SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [ सप्तमकिरणे • ननु सुखज्ञानादीनां गुणत्वं सुखदुःखादीनां पर्यायत्वमिति कथं ? पर्यायमुणयोर भेदादित्यत्राह अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम् , कालभेदेन भेदस्यानुभवात् ॥ . 5 . अत्रेति । कालभेदस्यानुभूयमानत्वेन तदपेक्षयैव भेदो न सर्वथेति भावः ॥ तदेवं प्रमाणस्य परिच्छेये समासत आदर्शिते किमीदृशस्य प्रमाणस्य फलमिति जिज्ञासायामाह- प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति। अज्ञाननिवृत्तिरनन्तरफलम् , केवलिनामपि प्रतिक्षणमशेषार्थविषयाज्ञाननिवृत्तिरूपपरि10 णतिरस्त्येव, अन्यथा द्वितीयादिसमये तदनभ्युपगमेऽज्ञत्वप्रसङ्गः ॥ प्रमाणजन्यमिति । अनन्तरमिति, अन्तररहितमव्यवहितं फलमित्यर्थः । परम्परमिति, व्यवहितं फलमित्यर्थः, अनन्तरं फलं प्रमाणानां दर्शयति अज्ञाननिवृत्तिरिति, प्रमाणप्रवृत्तिपूर्वकालीनं प्रमातृविवक्षितविषयकं यदज्ञानं तस्य निवृत्तिरव्यवहितं फलं अज्ञान मुद्दलयतामेव प्रमाणानां प्रवृत्तिरज्ञानस्य सर्वानर्थमूलतया प्रमात्रपकारित्वात्तन्निवर्तनस्य 15 प्रयोजनता युक्तैव, एतच्चाव्यवहित फलं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तमिति भावः, एतदुपलक्षकमर्थप्रकाशस्य, तस्याप्यव्यवहितफलत्वात् प्रमातृणां सर्वेषामर्थित्वादर्थप्रकाशस्य फलत्वौचित्यात् । ननु प्रमाणस्याप्यर्थसंवेदनरूपत्वेन तस्यैव प्रमाणस्य फलत्वेनोक्तिः पर्यवसिता, किमतः ? प्रमाणफलयोरभेदः स्यात् , ततोऽपि किं ? असतः कारणत्वस्य सतश्च फलत्वस्य प्रसङ्गः स्यादिति चेन्मैवम् , जन्मन्येवास्य दोषत्वाद् व्यवस्थायामदोषात् , 20 कर्मोन्मुखज्ञानव्यापारस्य फलत्वात् कर्तृव्यापारोल्लेखिबोधस्य प्रमाणत्वात् कर्तस्थायां प्रमाण रूपायां क्रियायां सत्यामर्थप्रकाशसिद्धेः । एकज्ञानगतत्वेन प्रमाणफलयोरभेदो व्यवस्थाप्यव्यवस्थापकभावाच्च भेद इति भेदाभेदरूपः प्रमाणफलभावोऽबाधितं स्याद्वादमनुगच्छति, करणस्य क्रियायाश्च कथञ्चिदेकत्वात्प्रदीपतमोविगमवत्, नानात्वं च परश्वधादिवत् । न च यथा देवदत्तः काष्ठं परशुना च्छिनत्तीति करणस्य परशोर्देवदत्तनिष्ठत्वेन छिदायाः काष्ठ25 स्थत्वेन च नानात्वं यथैव च प्रदीपस्तमो नाशयत्युद्योतेनेत्यत्रापि करणस्योद्योतस्य तमोनाशा त्मकक्रियायाश्च नानात्वं प्रतीयते तथैव करणस्य प्रमाणस्य क्रियायाश्च फलज्ञानरूपाया अशक्यविवेचनसहार्पितद्वयात् स्यादुभयावक्तव्यमेव, क्रमाक्रमार्पितद्वयादिति सप्तभङ्गी भाव्येति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy