________________
पर्यायाः ] न्यायप्रकाशसमलङ्कृते
:४५९ : कार्यभेदः कार्यभेदे च कारणभेदस्सिद्ध्यतीति । तदेवं द्रव्यपर्यायात्मानौ सामान्यविशेषावेक वस्तु, प्रतिभासभेदेऽप्यव्यतिरिक्तत्वात् यत्प्रतिभासभेदेऽप्यव्यतिरिक्तं तदेकं यथा मेचकज्ञानम् तथा च द्रव्यपर्यायौ न व्यतिरिच्येते तस्मादेकं वस्त्विति, न चायमसिद्धो हेतुः केवलद्रव्यस्य केवलपर्यायस्य वस्तुत्वे हि स्यादसिद्धिः, तदेव नास्ति क्रमयोगपद्यविरोधेनार्थक्रियाऽसम्भवात् , न च क्रमयोगपद्यविरोधस्तत्रासिद्ध इति साम्प्रतम् , द्रव्यस्य पर्यायस्य वा 5 सर्वथैकस्वभावस्य क्रमयोगपद्यादर्शनात् अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । न च द्रव्यपर्याययोर्वास्तवत्वेऽप्यभेदोऽसिद्धः घटादिद्रव्यापादिपर्यायाणां ज्ञानप्रतिभासभेदात् , घटपटादिवदिति वाच्यम् , तस्यैकत्वाविरोधित्वात् , उपयोगविशेषाद्धि रूपादिज्ञानप्रतिभास. भेदो न स्वविषयैकत्वं निराकरोति, सामग्रीभेदेऽयुगपदेकार्थोपनिबद्धविशदेतरज्ञानवत् । नापि विशेषणविरुद्धो हेतुः, विशेषणस्य प्रतिभासभेदस्याव्यतिरिक्तत्वहेतुना विरोधासिद्धेः। 10 नन्वव्यतिरिक्तत्वमैक्यमेव, तथा च साध्याविशिष्टो हेतुरिति चेन्न कथश्चिदप्यशक्य विवेचनत्वस्याव्यतिरिक्तत्वस्य हेतुत्वेन प्रयोगात् । न चाशक्यविवेचनत्वमप्यसिद्धमिति वाच्यम् , विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुमशक्यत्वस्य सुप्रतीतत्वात् , वेद्यवेदकाकारज्ञानवत् तदाकारयोर्ज्ञानान्तरं नेतुमशक्यत्वस्यैव तस्याभिमतत्वात् । न च द्रव्यपर्याययोर. युतसिद्धत्वादशक्यविवेचनत्वमिति वाच्यं यतः किमिदमयुतसिद्धत्वं, न तावदेशाभेदः पवना- 15 तपयोस्तत्प्रसङ्गात् नापि कालाभेदस्तत एव । स्वभावाभेद इत्यपि न, सर्वथा तथात्वे विरोधात् कथञ्चिच्चेत्तदेवाशक्यविवेचनत्वम् । स एवाविष्वग्भावः समवाय इति परमतप्रसिद्धः, अन्यथा तस्याघटनात् । न च धर्मिग्राहकप्रमाणेन बाधनाद्वाध इति वाच्यम् , तेन धर्मिणोः कथञ्चिद्भिन्नयोरेव ग्रहणात् । सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासम्भवात् । न च द्रव्यपर्याययोभिन्नयोः कथमभेदो विरोधादिति वाच्यम् , तथोपलम्भात् मेचकज्ञानवत् नहि तत्र विरो- 20 धवैयधिकरण्यसंशयव्यतिकरसङ्करानवस्थाऽप्रतिपत्त्यभावाः प्रसज्यन्ते, तेषां तथाप्रतीत्या दूरोत्सारितत्वोक्तत्वात् । तस्मात्सिद्धं द्रव्यपर्याययोः कथञ्चिदैक्यमिति ॥
. १. पृथगाश्रयानाश्रयित्वं पृथगगतिमत्त्वरूपमप्ययुतसिद्धत्वं नाशक्यविवेचनत्वादन्यदित्यपि बोध्यम् ॥ २. एवं द्रव्यपर्याययोरेकत्वे भेदः कथं सिद्धयतीति चेत्परस्परविविक्तस्वभावपरिणामसंज्ञासंख्याप्रयोजनादिभ्य इत्यवेहि, द्रव्यं हि अनाद्यनन्तैकस्वभाववैस्रसिकपरिणामं, पर्यायश्च साद्यन्तानेकस्वभावपरिणामः; द्रव्यस्य द्रव्यमिति पर्यायस्य पर्याय इत्यन्वर्थसंज्ञाभेदः, एक द्रव्यमित्येकत्वसंख्या द्रव्ये, पर्याया बहब इति पर्याये बहुत्वसंख्येति संख्याभेदः, द्रव्यस्यैकत्वान्वयज्ञानादिकं पर्यायस्यानेकत्वव्यावृत्तिज्ञानादिकं प्रयोजनंमिति प्रयोजनभेदः, द्रव्यं त्रिकालगोचरं पर्यायो वर्तमानकाल इति काल भेदः इति । एवञ्च द्रव्यपर्यायात्मक वस्तु स्यानानैव स्वलक्षणभेदात् , स्यादेकमेवाशक्यविवेचनत्वात् स्यादुभयमेव क्रमार्पितद्वयात् , स्यादवक्तव्यमेव, सहार्पितद्वयाद्वक्तुमशक्यत्वात् , स्यान्नानाऽवक्तव्यमेव, विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकमवक्तव्यमेव,