________________
: ४५८ :
तस्वन्यायविभाकरे
[ सप्तमकिरणे
पर्यायो द्विविधो व्यञ्जनंपर्यायोऽर्थ पर्यायश्चेति, त्रिकालस्पर्शिनः व्यञ्जनपर्यायाः यथा घटादीनां मृदादिपर्यायः, घटस्य कालत्रयेऽपि मृदादिपर्यायत्वव्यञ्जनात् । सूक्ष्मवर्त्तमानकालवर्त्ती अर्थ - पर्यायः, यथा घटादेस्तत्तत्क्षणवर्त्ती पर्यायः, यस्मिन् काले वर्त्तमानतया स्थितस्तत्कालापेक्षया कृतविद्यमानत्वेनार्थ पर्याय उच्यते । प्रत्येकं द्विभेदो द्रव्यतो गुणतश्च तत्रापि पुनः प्रत्येकं 5 द्विविधश्शुद्धाशुद्धभेदात्, तत्र शुद्धद्रव्यव्यञ्जनपर्यायो यथा चेतनद्रव्यस्य सिद्धत्व पर्यायः । अशुद्धद्रव्यव्यञ्जनपर्यायो नरदेवनारकतिर्यमूपः, शुद्धगुणव्यञ्जनपर्यायः केवलज्ञानादिरूपः अशुद्धगुणव्यञ्जनपर्यायो मतिश्रुतावधिमनः पर्यवरूपः । ऋजुसूत्रमतेन क्षणपरिणतोऽर्थ पर्यायः शुद्धः, यो यस्मादल्पकालवर्त्ती स तस्मादल्पत्वविवक्षयाऽशुद्धार्थपर्यायः, यथा नरत्वं व्यञ्जनपर्यायस्तथा बालत्वादिकमर्थपर्याय इति । शुद्धगुणव्यञ्जनपर्यायस्य केवलस्यापि प्रतिक्षणं 10 भेदात् तत्पर्यायश्शुद्धगुणस्यार्थपर्याय: । शुद्धद्रव्यव्यञ्जनपरमाणुश्शुद्धपुद्गलपर्यायस्तस्याविनाशित्वात्, संयोगजनिता द्व्यणुकादिका अशुद्धद्रव्यव्यञ्जनपर्यायाः । परमाणुगुणश्शुद्धगुणव्य
पर्यायः, द्विदेशादिका गुणा अशुद्धगुणव्यञ्जनपर्यायाः । एवं धर्मादिष्वपि भाव्यम् । ननु य एव गुणाः क्रमेण सह वा भवन्ति त एव च पर्याया इति कथं तेषां भेद उक्त इत्यत्राहाभिन्नेति, सदैव सहवर्त्तित्वाद्वर्णगन्धरसादयस्सामान्येन गुणा उच्यन्ते नहि मूर्त्ते वस्तुनि वर्णादिकं 15 कदाचिदपि व्यवच्छिद्यते, वर्णविशेषाणां कृष्णनीलादीनामपि प्रायः प्रभूतकालं सहवृत्तित्वाद्गुणत्वमेवं जीवधर्मादीनां भाव्यम् । विभिन्नेति । एकगुणकालकत्वादयो विभिन्ना: पर्याया द्रव्यस्यावस्थान्तरप्राप्तिरूपाः पर्याया इत्यर्थः । त्रैलोक्यगतस्य सर्वस्यापि कालस्यासत्कल्पनया यो गुणोंऽशस्सर्वजघन्यः तेन कालकः परमाण्वादिरेकगुणकालक उच्यते, एवं द्व्यादिगुणकालकादयो भाव्याः । वस्तुतस्तु नास्ति गुणस्य पर्यायस्य च कश्चन भेदः, द्रव्यपर्यायनयद्वयाति20 रिक्तनयस्य भगवद्भिरनुपदेशात् । पर्याय भन्ने गुणविशेषे ग्राह्ये सति हि तद्ब्राहकगुणास्तिक - योsपि स्यादेव, अन्यथा नयानामव्यापकता स्यान्न चायमादिष्टो भगवद्भिः ततोऽसौ न भिन्नः, गुणाना पर्यायत्वे गुणपर्यायवद्रव्यमित्यादिवचनं युगपदयुगपद्भाविपर्यायविशेषप्रतिपादकमे, वय एव पर्यायस्स एव गुण इत्याद्यागमोऽपि सङ्गच्छते, एतेन गुणविकार: पर्याय इति व्युदस्तम्, गुणस्यैव पर्यायोपादानकारणत्वे द्रव्यप्रयोजनस्य गुणेनैव सिद्धत्वाद्गुणप 25 र्याययोरेव पदार्थत्वप्रसङ्गेन द्रव्यस्यानर्थकत्वापत्तेः, न च द्रव्यपर्यायगुणपर्यायरूपकार्यभेदेन द्रव्यगुणरूपकारणभेदान्न द्रव्यं निष्फलमिति वाच्यम्, अन्योऽन्याश्रयात्, कारणभेदे सति
१. न चैवमपि मतुब्योगाद्दव्यभिन्नगुणपर्यायसिद्धिरिति वाच्यम्, नित्ययोगे मतुब्विधानात् द्रव्यपर्याययोस्तादात्म्यात् सदा · निर्विभागवर्त्तित्वात् अन्यथा प्रमाणबाधापत्तेः । संज्ञासंख्यास्वलक्षणार्थक्रियाभेदाद्वा कथचित्तयोरभेदेऽपि भेदसिद्धेर्न मतुबनुपपत्तिरिति ॥