________________
पर्यायाः ]
न्यायप्रकाश
लवर्त्तिविशेषो गुण इति भावः, दृष्टान्तमाह यथेति उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, सचेतनेऽचेतने वा वस्तुनि जीवो यदोपयुञ्जानस्सपर्यायं सामान्यतया वा वस्तु परिच्छिनत्ति तदा तादृशपरिणाम उपयोग उच्यते, स च परस्परसव्यपेक्षसामान्यविशेषग्रहणप्रवृत्तदर्शनज्ञानस्वरूपद्वयात्मको यदा तदा प्रमाणमन्यथाऽप्रमाणं निरपेक्षनिरस्तेतराकारत्वात् । सर्वजीववर्तित्वादस्य सहभावित्वेन गुणत्वं बोध्यम् । 5 आदिना सुखपरिस्पन्दयौवनादयश्च गृह्यन्ते, अजीवस्य तान्वक्तुमाह पुद्गलस्येति, ग्रहणगुण इति, ग्रहणरूपो गुणः, औदारिकशरीरादितया ग्रहणरूपो वर्णादित्वाबाह्यतारूपः परस्परसम्बन्धरूपो वा धर्मः ग्रहणगुण उच्यते । गतिहेतुत्वादय इति, जीवपुद्गलयोर्देशान्तरगतिपरिणतयोरुपकारकत्वं धर्मास्तिकायस्य गुण इत्यर्थः, आदिना स्थितिहेतुत्वावकाशदातृत्वादयोऽधर्माकाशादीनां गुणा ग्राह्याः । एते हि यदैव द्रव्यमुत्पद्यते तदैव समवेतास्तेन द्रव्येण 10 गुणा उत्पद्यन्ते पौर्वापर्यभाव एव नास्ति, गुणगुणिनोः समानसामग्रीकत्वात् सव्येतरविषाणवत् , अनादिनिधनानां द्रव्यगुणानामुत्पत्तिदर्शन व्यवहारतः कृष्णादिघटवत् । अत्रेदं बोध्यं जीवस्यास्तित्ववस्तुत्वद्रव्यत्वप्रमेयत्वागुरुलघुत्वस्वाश्रयक्षेत्रावधित्वचेतनत्वामूर्त्तत्वानि अष्टौ गुणाः, अजीवे चेतनत्यासूतत्वहीना अचेतनत्वमूर्त्तत्वयुताः पुद्गलस्याष्टी, इतरेषां मूर्त्तत्वहीना अमूर्त्तत्वयुतास्त एवाष्टौ गुणाः, ज्ञानदर्शनसुखवीर्याणि जीवस्य, स्पर्शगन्धरस- 15 वर्णाः पुद्गलस्य, गतिस्थित्यवगाहनावर्तनाहेतुत्वानि धर्मादीनां क्रमेण विशेषगुणाः, अविकृतद्रव्येऽविशिष्टतया स्थितत्वात् विकृतस्वरूपास्तु पर्याये गच्छन्ति । चेतनत्वाचेतनत्वमूर्तत्वामूर्त्तत्वानि चत्वारि सामान्यगुणा विशेषगुणाश्च, स्वजात्यपेक्षयाऽनुगतव्यवहारकारित्वात् , परजात्यपेक्षया चेतनत्वादीनां स्वाश्रयव्यावृत्तिकरत्वात् । अत एवैते परापरसामान्यवत् सामान्यविशेषगुणा इति षोडश विशेषगुणा विज्ञेया इति ॥
20 अथ पर्यायं निरूपयति
क्रमभावी पर्यायः, यथा सुखदुःखहर्षविषादादयः । अभिन्नकालवर्तिनो गुणाः, विभिन्नकालवर्तिनस्तु पर्यायाः ॥
क्रमभावीति । क्रमवर्तिनः परिणामा नवपुराणादयः पर्याया इति भावः । सामान्येन
.. १. उपचारवर्जिताः स्वीयस्वभावा एव गुणाः, गुणा हि सहभाविनोऽतोऽनुपचरिताः, यश्चोपचरितः स पर्यायः, अत एव द्रव्याश्रिता गुणाः, उभयाश्रिताः पर्यायाः, तदुक्तं 'गुणाणमासओ दव्वं एगव्वस्सिया गुणा लक्खणं पज्जवाणं तु उभओ अस्सिया भवे' इति ।
५८