________________
तस्वन्यायविभाकरे
[ सप्तमाकरण मानानुगताकारं बस्तुभूतं सामान्य व्यवस्थापयति । न च विजातीयव्यावृत्त्यालम्बनत्वमस्याः, विधिप्राधान्येन प्रवृत्त्यनुपपत्तेः, सकलव्यक्तिध्वेकव्यावृत्तेस्तुच्छाया असम्भवात् , धर्मिरूपत्वे च न सतो भिन्ना काचिद्व्यावृत्तिरिति कथमनुगता धीरस्यात् सामान्यमन्तरेणैवानुगत प्रत्ययोत्पत्तौ व्यावृत्तप्रत्ययस्यापि विशेषमन्तरेणोत्पत्तिप्रसङ्गात् ।। 5 किं पुनरूलतासामान्यमित्यत्राह- --
पूर्वोत्तरपरिणामानुगामि द्रव्यमूर्ध्वतासामान्यम्, यथा कटककङ्कणादिपरिणामेषु काश्चनमिति प्रतीतिसाक्षिकं काश्चनद्रव्यम् ॥
पूर्वोत्तरेति । पूर्वोत्तरयोः कटककङ्कणादिपरिणामयोरनुगामिसाधारणमेकं द्रव्यं कालत्र. यानुयायी यो वस्त्वंशस्तदूर्ध्वतासामान्यमित्यर्थः । दृष्टान्तमाह यथेति, तत्र प्रमाण दर्शयितुं 10 प्रतीतिसाक्षिकमित्युक्तम , तथा च यथा गौौरित्यनुवृत्तप्रत्ययेन समानकालीनास्वपि व्य
क्तिषु तिर्यक्सामान्य गोत्वाख्यं सिद्ध्यति तथैव पूर्वोत्तरपर्यायेष्वपि काञ्चनमिदं काञ्चनमिदमित्यादिप्रतीत्या तादृशपर्यायासाधारणं द्रव्यरूपमूर्ध्वतासामान्यं कथञ्चिदभिन्नं सिद्धयत्येवेति भावः । ननु पूर्वोत्तरपरिणामसाधारणस्य तद्व्यतिरिक्तस्य द्रव्यस्याप्रतीतेलक्षणमिदमसङ्गतमिति
चेन्न, अर्थानामन्वयरूपस्य प्रत्यक्षादेव प्रतीतेः, यथैव च पूर्वोत्तरपर्याययोावृत्तप्रत्ययाद15 न्योऽन्यभेदः प्रतीतस्तथाऽनुवृत्तप्रत्ययात्स्थितिरपि प्रतीयत एव, अनुवृत्त्यविनाभावित्वाद्वथा
वृत्तेः, अत एव न घटादीनां भेद एवावभासते नाभेद इत्यभिधातुं शक्यम् , अभेदवियुक्तस्य भेदस्य स्वप्नेऽप्यसंवेदनात् । न च द्रव्यग्रहणे तदभिन्नत्वादतीताद्यवस्थानामध्यवसायापत्तिरिति वाच्यम् , अभिन्नत्वस्य ग्रहणं प्रत्यनङ्गत्वात् । यत्रैवात्मनोऽज्ञानपर्यायप्रतिबन्धकापा
यस्तत्रैवाध्यवसायकत्वनियमात् । आत्मा हि प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं 20 स्मरणप्रत्यभिज्ञानसहायश्च व्यवहितपर्याययोरेकत्वञ्चावबुध्यत इति न काप्यनुपपत्तिरिति ॥
अधुना विशेष विभजते
विशेषोऽपि द्विविधो गुणः पर्यायश्चेति । सहभावी गुणः, यथाऽऽत्मन - उपयोगादयः, पुद्गलस्य ग्रहणगुणः,धर्मास्तिकायादीनाञ्च गतिहेतुत्वादयः॥ . विशेष इति । यथा सामान्यं द्विविधं तथा विशेषोऽपीत्यर्थः कथं द्वैविध्यमित्यत्राह 25 गुण इति, यद्यपि पर्यायशब्दो विशेषमात्रवाचकस्तथापि सहवर्तिविशेषवाचिगुणशब्दस
निधानेन क्रमवर्तिविशेषवाचक एवेति बोध्यम् । तत्र गुणं लक्षयति सहेति, अभिन्नका