________________
सामान्यम् ]
न्यायप्रकाशसमलङ्कृते दिजनितज्ञानावरणादिकर्ममलपटलाच्छादितस्वरूपस्य संकेततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावापद्यते, ततो विवक्षितार्थाकारसंवेदनं प्रवर्तत इति, अन्यथा तत्प्रवृत्त्यभावात् , न चात्र विरोधबाधा, भिन्ननिमित्तत्वात् , ययोभिन्ननिमित्तत्वं न तयोरेकत्र वस्तुनि विरोधो यथा ह्रस्वत्वदीर्घत्वयोः, भिन्ननिमित्तत्वञ्चानयोरभिलाप्यधर्मकलापनिमित्तापेक्षया तस्याभिलाप्यत्वात् अनभिलाप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यत्वात् । 5 धर्मधर्मिणोश्च कथञ्चिद्भेदात् । ततश्च तद्यत एवानभिलाप्यमत एवाभिलाप्यम् , अभिलाप्यधर्मकलापनिमित्तापेक्षयैवाभिलाप्यत्वात् अभिलाप्यधर्माणाश्चानभिलाप्यधर्माविनाभूतत्वात् यत एव चाभिलाप्यमत एव चानभिलाप्यम् , अनभिलाप्यधर्मकलापनिमित्तापेक्षयैवानभिलाप्यत्वात् , अनभिलाप्यधर्माणाञ्चाभिलाप्यधर्माविनाभूतत्वादिति । ततस्सिद्धमभिलाप्यानभिलाप्यस्वभावं वस्त्वित्यधिकमन्यग्रन्थेभ्योऽवसेयम् ॥
. 10 सम्प्रति सामान्यविशेषाद्यात्मकत्वं वस्तुनोऽभिधातुं प्रथमं सामान्यस्वरूपं निदर्शयति
तत्र सामान्यं द्विविधं तिर्यक्सामान्यमूर्ध्वतासामान्यश्चेति । व्यक्तिषु सदृशी परिणतिस्तिर्यक्सामान्यं, यथा शुक्लकृष्णादिगोव्यक्तिषु गौौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणश्चात्र गौौरिति प्रत्ययो विशिष्टनिमित्तनिबन्धनो विशिष्टबुद्धित्वादिति ॥
15 तत्रेति । सामान्यविशेषाद्यनेकान्तात्मकमित्यत्रेत्यर्थः । प्रकारभेदं दर्शयति-तिर्यगिति । तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यमित्यर्थः । ऊर्ध्वतेति, ऊर्ध्वमुल्लेखि. नाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्खतासामान्यमित्यर्थः । तत्र प्रथमभेदं लक्षयति व्यक्तिष्विति, प्रत्येकं व्यक्तिष्वित्यर्थः, दृष्टान्तमाह यथेति । ननु शुक्लकृष्णादिगोभिन्नस्यापरस्य तिर्यक्सामान्यस्य गोत्वाद्यात्मकस्याप्रतीतितस्तल्लक्षणप्रणयनमसमीचीनं विजातीयव्या- 20 वृत्तेरेवानुगताकारप्रतीतेर्भावादित्यत्राह प्रमाणश्चात्रेति, अत्र तिर्यक्सामान्य इत्यर्थः । गौरेंरिति प्रत्ययोऽत्र धर्मी, विशिष्टनिमित्तनिबन्धनत्वं साध्यधर्मः विशिष्टबुद्धित्वं हेतु; । तथा च तादृशं विशिष्टं निमित्तमितरासम्भवात्सदृशपरिणाम एवेति तिर्यक्सामान्यसिद्धिः । एवञ्चाबाधितप्रत्ययविषयत्वेन सामान्यसिद्धिः, तथाविधस्याप्यस्यासत्त्वे विशेषस्याप्यसत्त्वप्रसङ्गः, अबाधितप्रत्ययत्वव्यतिरेकेण प्रमाणान्तरस्य तद्व्यवस्थापकस्याभावात् अबाधितप्रत्ययस्य 25 विषयमन्तरेणापि सद्भावाभ्युपगमे ततो न कस्यापि व्यवस्था स्यात् , न चानुगताकारत्वं बुद्धे- . र्बाधितं, सर्वत्र देशकालादावनुगतप्रतिभासस्यास्खलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात् । अतो व्यावृत्ताकारानुभवेनानधिगतमनुवृत्ताकारमवभासयन्ती बुद्धिरियमबाधितरूपानुभूय