________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे किन्तु स्याद्वादं निष्कलङ्कितमतिसमुत्प्रेक्षितमाश्रित्य कथञ्चिदेव तद्व्यवस्थापनाङ्गीकारात् । एकान्ताभ्युपगमे ह्युत्पादव्ययध्रौव्याणां यथोक्तो व्यवच्छेदस्सम्भवत्यन्यथा विरोधायोगात् । स्याद्वादाश्रयणात्तु नान्यव्यवच्छेदेनान्यव्यवस्थापनं किन्तु यत एव तद् ध्रौव्यमुत्पादव्ययानुविद्धमत एव तत्कथञ्चिद् ध्रौव्यमुत्पादव्ययावपि, यत एव ध्रौव्यानुविद्धावत एव तौ 5 कथञ्चिदुत्पादव्ययाविति । ननु कोऽयमनुवेधो नाम, किमभेदो भेदो भेदाभेदो वा, नाद्यः एकरूपतापत्तेः, अन्यथा तदयोगात् , भेदे तु भिन्नमेव रूपद्वयं स्यात् , भेदाभेदपक्षस्तु विरोधव्याहत इति तन्न, अभिप्रायापरिज्ञानात् , यतो यदेतद् ध्रौव्यमप्रच्युतानुत्पन्नस्थिरैकरूपं न भवति, अपि तु परिणामात्मकं तदुत्पादव्ययावप्युच्यते, न पुनस्तावितो व्यतिरिक्तावेव कौचि
दपि स्तः, अत एवोत्पादव्ययावपि यौ तौ नात्यन्तिकभिन्नौ, किन्तु वस्तुन एव परिणामा10 त्मकौ तौ ध्रौव्यमप्युच्येते, न पुनस्तदपि किञ्चिदेतद्व्यतिरिक्तमस्तीति, तदेवं या यथोक्तरूपता
वस्तुनस्सोऽयमनुवेधः न पुनरत्र भिन्नस्य कस्यचिदभेदापादनमत्यन्तभेदो वा, तस्मादुत्पादव्ययध्रौव्यात्मकमेव वस्तु इति, इतरथा वस्त्वेव तन्न स्यादिति ॥ एवमभिलाप्यानभिलाप्यात्मकं वस्तु, अस्यैव प्रमाणसिद्धत्वात् तथाव्यवहारोपपत्तेश्चान्यथा व्यवहारोच्छेदप्रसङ्गात्
तथाहि वस्तु यदेकान्तेनानभिलाप्यमेव तदा तथाविधशब्दात्तथाविधार्थप्रतीत्यनुदयप्रसङ्गः 15 स्यात् , दृश्यते चानलाद्यानयेत्युक्ते तत्प्रतीतिस्तत्पूर्विका वह्नयादौ प्रवृत्तिस्तत्समासादनं समा
सादिते च तथा निवेदनमिति कथञ्चिदभिलाप्यत्वसिद्धिः, अपि चानभिलाप्यतैकान्ते स्ववचनविरोधापत्तिरनभिलाप्यतैकान्तशब्देनानभिलाप्यतैकान्तस्याभिधानात् । अनभिलाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परस्य प्रतिपादनं स्यात् , परमार्थतो न कश्चिद्वचनात्प्रतिपाद्यते
चेत्स्वयं कथमवाच्यताप्रतिपत्तिः, वस्तुनि वाच्यतानुपलब्धेरिति चेत्सा यदि दृश्यानुप. 20 लब्धिस्तदा सिद्धा क्वचिद्वाच्यता, क्वचित्सिद्धसत्ताकस्यैव कुम्भादेईश्यानुपलब्धिवशादभावप्रतीतेः । अथादृश्यानुपलब्धिः न तर्हि वस्तुनि वाच्यत्वाभावनिश्चयः, स्याद्वादाश्रयणे तु न कश्चिद्दोषः कथञ्चिद्वाच्यत्वावाच्यत्वयोर्वस्तुनि प्रतीतेः, न खल्वेकान्तेनाभिलाप्यस्वभावं वस्तु भवत्युपलम्भभाजनम् , अभिलाप्ययोग्यपर्यायैरेव स्थूलैः कालान्तरस्थायिभिर्व्यञ्जनपर्यायापराभिधानश्चेतनाचेतनस्य सकलवस्तुनोऽभिलाप्यत्वप्रतीतेः, न पुनरनभिलापयोग्यपर्यायै2 रपि । नाप्येकान्तेनानभिलाप्यस्वरूपमुपलब्धिभाजनमनभिलापयोग्यपर्यायैरेव सूक्ष्मैः प्रति
क्षणभाविभिरर्थपर्यायापरनामधेयैस्सर्वस्यानमिलाप्यत्वप्रतीतेन त्वभिलापयोग्यपर्यायैरपि । ननु यदि वस्त्वभिलाप्यानभिलाप्यधर्मकं तर्हि अभिलाप्यानां शब्देनाभिधीयमानत्वात्किमित्यकृतसंकेतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान सम्प्रत्ययप्रवृत्ती भवतः, मैवम् तज्ज्ञानावरणकर्मक्षयोपशमाभावात् , तस्य सङ्केताभिव्यङ्गयत्वात् , ज्ञस्वभावस्यात्मनो हि मिथ्यात्वा