________________
संशयः ] न्यायप्रकाशसमलते
:४७: हणम् । अधूम इति शेषः, धूमभ्रमादिति, कुतोऽपि कारणात् भ्रान्त्या धूमत्वेन ज्ञाते सतीति भावः । वह्निविरहिते देश इति, अन्यथास्थितवस्तूपदर्शकं पदमिदम् । वह्नयनुमानमिति, एककोटिमात्रप्रकारकनिश्चयत्वप्रदर्शनपरम् । तदुल्लेखप्रकारमाहायं देश इति । इतीति, लौकिकविपर्ययाणामुपदर्शकमिदम् । अथ परीक्षकविपर्ययमाह-क्षणिकेति, क्षणिकाक्षणिकत्वं भिन्नाभिन्नत्वं नित्यानित्यत्वञ्च वस्तुनः परीक्षया निर्णीतं तथाभूतं वस्तु तत्तच्छानबलेन 5 भ्रान्तिसहकृतेनैकान्तक्षणिकत्वादिज्ञाने सति विपर्ययत्वमिति भावार्थः, स्पष्टं सर्वम् ।।.
अथ संशयस्वरूपमाह
अनिश्चितनानांशविषयकं ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति ज्ञानम् । इदश्च स्थाणुत्वपुरुषत्वान्यतरनिश्चायकप्रतिषेधकप्रमाणाभावादासेहपरिणाहात्मकसाधारणधर्मदर्शनात्कोटिद्वयविषयकस्मरणाच्च समु- 10 मिषति । अयं प्रत्यक्षधर्मिकः संशयः। परोक्षधर्मिविषयको यथा कचि. द्वनप्रदेशे शृङ्गमात्रदर्शनेन किं गौरयं गवयो वेति संशयः ॥
अनिश्चितनानांशविषयकमिति । यतो विधौ प्रतिषेधे वा कस्यचिदसमर्थ अत एव तज्ज्ञानं अनिश्चितनानांशविषयकमित्यर्थः, ज्ञानमिति, बोधविशेष इत्यर्थः, संशय इति, यत्सर्वप्रकारैश्शेत इवातस्संशय इत्यर्थः । एकस्मिन् धर्मिणीत्यादिः, तथा चैकस्मिन् 15 धर्मिणि अनिश्चितनानांशविषयकं ज्ञानं संशय इति भावः । अनिश्चितेति विशेषणात् स्वपररूपेण सदसदात्मकं वस्त्विति ज्ञानानां व्युदासः। दृष्टान्तमाह यथेति, अयमिति शेषः, सामान्यतस्संशयं प्रति धर्मिज्ञानं साधारणधर्मदर्शनं विशेषादर्शनमनेकविशेषस्मरणश्च कारणमिति लक्ष्ये तत्सङ्गमयति इदश्चेति, संशयात्मकमिदं ज्ञानश्चेत्यर्थः । स्थाणुत्वेति, स्थाणुत्व.. पुरुषत्वयोर्विशेषयोरन्यतरस्य निश्चयजनकं प्रतिषेधकं वा यत्प्रमाणं तदभावादित्यर्थः । एतेन 20 विशेषादर्शनरूपकारणसम्पत्तिर्दर्शिता, आरोहपरिणाहात्मकेति, स्थाणुपुरुषयोरारोहपरिणाहात्मकसाधारणधर्मस्य दर्शनादित्यर्थः, अनेन साधारणधर्मदर्शनरूपकारणसम्पत्तिर्दर्शिता, कोटिद्वयविषयकस्मरणाचेति, स्थाणुत्वपुरुषत्वरूपकोटिद्वयविषयकस्मरणादित्यर्थः, अनेनानेकविशेषस्मरणं दर्शितम् , दूरात्प्रत्यक्षगोचरः पुरोवर्ती धर्मी संशयस्यातो धर्मिज्ञानं कारणमायातम् , ततश्चायं स्थाणुर्वा पुरुषो वेति संशयः समुन्मिषति । साधकबाधकप्रमाणा- 25 भावाद्धि पुरोवर्त्तिनि यदा स्थाणुरयमिति निर्णतुमभिलषति तदा पुरुषविशेषानुस्मरणबलेन पुरुषे समाकृष्यते, यदा च पुरुषोऽयमिति निश्चेतुमिच्छति तदा स्थाणुविशेषानुस्मरण