________________
भेदाभेदात्मकम् ]
न्यायप्रकाशसमलङ्कृते वाच्यम् , कार्यकरणावस्थायां तस्य सहकार्यपेक्षालक्षणस्वभावव्यावृत्तावनित्यत्वप्रसङ्गात् स्वभावव्यावृत्तौ तदभिन्नस्वभाववतोऽपि व्यावृत्तताया आवश्यकत्वात् । अव्यावृत्तौ च पूर्व इवेदानीमपि कार्याकारित्वप्रसङ्गात् स्वभावापरावृत्तेः, सर्वदा वा जननप्रसङ्गस्यादिति नैकान्तनित्यपक्षे विज्ञानादिकार्याजननेन तदवगमसम्भवः । अथ स्वभावादेकक्षणस्थितिधर्मकमेकान्तानित्यं वस्त्वित्यभ्युपगम्यते तदापि विज्ञानादिकार्यायोगान्न तदवगमसम्भवः, 5 न च सर्वथा एकक्षणस्थितिधर्मिणो विज्ञानादिजनकत्वमुपपद्यते, तस्यैवायोगात् । तथाहि क्षणस्थितिधर्मकं नाम क्षणस्थितिस्वभावं तथा चास्य द्वितीयादिक्षणेष्वस्थितिः स्यात् तत्र तयोः स्थित्यस्थित्योः परस्परमन्यत्वमनन्यत्वं वा, यद्यन्यत्वं सर्वथा तदा द्वितीयादिक्षणेष्वपि स्थितिप्रसङ्गः, अन्यथा द्वितीयादिक्षणास्थित्या प्रथमस्थितेरेकान्तभेदो न भवेत् , अनन्तराक्रान्तविग्रहाणां भावानामस्थित्यकान्तभिन्नया वर्तमानसमयभाविभावानां 10 स्थितेरविरोधात् । कथञ्चिदन्यत्वे चानेकान्तवादापत्तेः । यदि तयोस्सर्वथाऽनन्यत्वं तदा प्रथमक्षणस्थितेरेव द्वितीयादिक्षणास्थितिरूपतया तस्याश्च भावात्मकत्वेन द्वितीयादिक्षणेध्वपि स्थितेरापत्तेः । द्वितीयादिक्षणास्थितेर्निरुपाख्यत्वेन तद्रूपत्वात्प्रथमक्षणस्थितेः प्रथम क्षणेऽप्यभावप्रसङ्गाच्च । कथचिदभेदे चानेकान्तवादापत्तेः । न च स्थित्यस्थित्योर्भेदाभेदकल्पनाऽयुक्ता, अस्थितेरभावरूपत्वादिति वाच्यम् , भेदाभेदयोरभावपरिहारेणावृत्तेः । 15 न च तदुत्तरकालभाविपदार्थान्तरस्थितिरेव विवक्षितस्य द्वितीयादिक्षणास्थिति न्या काचनास्थितिर्येन भेदाभेदकल्पना स्यादिति वाच्यम् , तथा सति सुतरामन्यत्वानन्यत्वकल्पनाप्रसरेण पूर्वोदितदोषस्यानिवार्यत्वात् । न च परिकल्पिता द्वितीयादिक्षणास्थिति तो भेदाभेदकल्पनेति वाच्यम् , तथात्वे च द्वितीयादिक्षणेष्वपि स्थित्यापत्तेः। न च द्वितीयादिक्षणास्थितौ सत्यां प्रथमक्षणस्थितेरसम्भवात् सम्भवे वा तदनुपपत्तेः प्रतियोग्यभावेन भेदाभेद- 20 कल्पनाऽसम्भवान्नोक्तदोषप्रसङ्ग इति वाच्यम् , अस्थितेस्तद्धर्मत्वप्रसङ्गस्य दुर्वारत्वात् , स्थित
१. कार्याजननकाले य एव स्वभावस्स एवेदानीमिति कथं जनयति कथं वा पूर्वमपि न जनयति । सहकारिणा सह जननस्वभावत्वमतस्तत्सद्भावे जनयत्यन्यथा नेति चेत्सोऽयमपि स्वभावो यदि नित्यस्तदा सदा जननप्रसङ्गः अजनयतश्च कथं सदा. तत्स्वभावत्वं, तस्माद्यदा यद्भवति तदा तेन सह तजननस्वभावं न तु सदेत्यङ्गीकर्तव्यमेवञ्च स्वभावभेदै कथमेकान्तनित्यतेति भावः ॥ २. यथा प्रथमक्षणवर्तिघटपटादीनां याः स्थितयस्ता अन्यत्वान्न परस्परं विरुद्धास्तथाऽन्यत्वाविशेषादस्थितिकालेऽपि तस्य स्थितिः स्यादिति भावः ॥ ३. स्थित्यस्थिती परस्परं भिन्ने भवतोऽभिन्ने वेति शङ्का न संभवति अस्थितेरभावरूपत्वादिति शङ्काशयः समाधानाशयस्तु भेदाभेदप्रकारौ अभावादन्यत्रैव भवत इति यदि नियमः स्यात्तदैवं भवेत् न त्वेवमस्तीति ॥ ४. प्रथमक्षणादुत्तरकालभावीत्यर्थः ॥ ५. अन्यत्वे उत्तरकालीनपदार्थान्तरस्थितिक्षणेऽपि प्रथमकालभाविपदार्थक्षणस्थितिप्रसङ्गः, अनन्यत्वे तु तयोरन्यतरस्याः सत्त्वप्रसङ्ग इति ॥ ६. द्वितीयादिक्षणस्थितेः परिकल्पितत्वेनासत्त्वादिति भावः ॥