________________
:४५२ : तस्वन्यायविभाकरे
[ सप्तमकिरणे एव ह्यस्थितो भवति तथा च यथा स्थितत्वं तद्धर्मस्तथाऽस्थितत्वमपीति, अतद्धर्मत्वे वा स्थित्यापत्तेः । ततश्च स्वहेतुभ्य एव स्थित्यस्थितिधर्मकं समुत्पद्यत इति प्रतिपत्तव्यम् , न चाक्रमवतः कारणात्क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते तथा च यदैव स्थितिस्तदेवास्थितिः स्यात् कुतः
क्षणस्थितिधर्मकत्वमतो न विज्ञानादिकार्ययोगः, नित्यानित्यं पुनः कथश्चिदवस्थितत्वादनेक5 स्वभावत्वाजनयति विज्ञानादिकमतोऽवगम्यते, नित्यानित्यत्वञ्च वस्तुनो द्रव्यपर्यायोभय. रूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनप्राह्यत्वात्प्रत्यक्षसिद्धमेव । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कत्तुं युज्यते प्रतीतिविरोधात्, न चेदं भ्रान्तम् , देशान्तरे कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु तादृशसंवेदनस्य प्रवृत्तेरिति । एवं भेदाभेदात्मकमपि
वस्तु प्रत्यक्षेणावगम्यते, तथाहि मृन्मृदित्यनुगताकारप्रत्ययवेद्यं वस्तुनो रूपमभेदः, तस्य 10 यच्छिवकस्थासकघटकपालादिना भेदेन भवनं स भेदः, अभेदस्यैव च भेदरूपेण भवनादविरोधेन तदुभयस्वरूपत्वं वस्तुनः । नन्वभेदस्य भेदेन भवनमसङ्गतम् , एकस्वभावत्वं ह्यभेदो नानारूपत्वश्च भेदस्तयोस्तु परस्परं विरोधान्नैकत्र तौ सम्भवतः, ततो यद्ययमभेदस्तदा न कदाचिद्भेदो भवेत् भावानां स्वभावान्यथात्वाभावात् , न च भावस्स्वस्वभावापरिहारेणैव
भेदरूपतामासादयतीति वाच्यम् , भेदाभेदयोः परस्परविरुद्धयोरेकस्वभावत्वायोगात् भेदो15 पलम्भस्याभेदप्रतिषेधाऽऽवेदकत्वात् । अन्यथा एतत्सकलस्तम्भेभकुम्भाम्भोजभास्करादि
कमेकस्यैव ब्रह्मणो रूपमित्यपि स्यात् । तस्मानाभेदो भेदमासादयति, तन्न युक्तम् , सर्वथा भेदाभेदयोर्हि स्याद्विरोधोऽयन्तु भेदोऽभेदश्च विलक्षणः, स्यादभेदस्य स्याद्भेदे को विरोधः ? यत एव ह्ययं भेदो भवत्यत एव स्यादभेदः, न च भेद एव कुतो नेति वाच्यम् सर्वथा
नानात्वाभावात् , प्रमाणाधीना हि प्रमेयव्यवस्था, ततस्तत्र यस्सर्वथैकरूपतः प्रकाशतेऽसा20 वभेदो भवति, सर्वथा नानारूपतया तु प्रतिभासमानो भेदः, यस्तु न सर्वथैकरूपः
प्रकाशते न च सर्वथैव नानास्वभावः स नाभेद एव न च भेद एव अपितु भेदाभेदाख्यं जात्यन्तरमेवेदम् , दृश्यते हि द्रव्यपर्याययोरसंख्यासंज्ञालक्षणकार्यभेदाढ़ेदो देशकालस्वभावाभेदाच्चाभेदः, एको हि घटो रूपादयो बहव इति संख्याभेदः घटो रूपादय इति संज्ञाभेदः, अनुवृत्तिलक्षणं द्रव्यं नित्यञ्च, व्यावृत्तिलक्षणाः पर्यायाः क्षणिकाश्चेति
१. अभ्यन्तरीकृतपर्यायत्वाद् द्रव्यात्मना नित्यं, अभ्यन्तरीकृतद्रव्यत्वात्पर्यायात्मनाऽनित्यमित्यर्थः, ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति न वा, आये निवृत्तिमत्त्वात्तदनित्यमेव, पर्यायस्वात्मवत् , अन्त्ये च पर्यायनिवृत्तावपि तस्यानिवृत्त्या तेभ्योऽन्यदेव द्रव्यं स्यात् क्रमेलकादिव कर्कः, मैवम् कथञ्चिन्निवृत्तिभावात् इतरेतरविनिमुक्तस्योभयस्याग्रहणाद्धि द्रव्यपर्यायोभयरूपं वस्तु ऊर्ध्वाद्याकाररहितस्य च मृद्रव्यस्यासम्भवात् कपालकालेऽपि घटपर्यायबुद्धया मृदनुभूयते मृन्निवृत्तौ तूर्खादिपर्यायवनानुभूयेत एवमूर्खाद्याकारस्यापि मृद्रव्यरहितस्यासम्भवः, न ह्यद्रव्या घटादिपर्यायास्सन्ति ।।