________________
तस्वन्यायविभाकरे
[ सप्तमकिरणे
न्तर इति न, किन्तु समान इति, न चैवं सति विशेषाणां परस्परविलक्षणत्वान्न स्यात्समानबुद्धिशब्दद्वयप्रवृत्तिरिति वाच्यम् , वैलक्षण्ये सत्यपि समानपरिणामसामर्थ्यात्प्रवृत्तेः । असमानपरिणामनिबन्धना चेह विशेषबुद्धिः । समानपरिणामस्यासमानपरिणामाविनाभूतत्वेन यत एव वस्तु सामान्यरूपं तत एव विशेषरूपम् । यत एव च विशेषरूपमत एव च सामा5 न्यरूपम् , न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि संवेदनस्योभयरूपत्वात् सोऽयं समानपरिणामो न विशेषादर्थान्तरं सर्वथैकस्वभावं वा, येन सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गरस्यात् । किन्तु भेदाविनाभूतत्वाद्य एव विषादभिन्नो न स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् । न च समानपरिणामस्यापि प्रतिवि
शेषमन्यत्वेऽसमानपरिणामवत्तद्भावानुपपत्तिरिति वाच्यम् , परिणामस्यान्यत्वे सत्यपि समा10 नासमानपरिणामयोभिन्नस्वभावत्वात् समानबुद्धिशब्दप्रवृत्तिनिमित्तस्वभावो हि समानपरिणामः, विशिष्टबुद्धिशब्दजननस्वभावो विशेष इति । तस्माद्वस्तु सामान्यविशेषोभयात्मकमेवेति सिद्धम् । एवं नित्यानित्यात्मकत्वमप्यध्यक्षेणावगम्यते, अन्यथा वस्त्ववगमाभावः प्रसज्येत, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते यदि तर्हि
तद्वस्तु विज्ञानजननस्वभावं वा स्यादजननस्वभावं वा, यदि प्रथमः, तदा सर्वत्र सर्वदा 15 सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात् , न ह्येवं दृश्यते, क्वचित्कदाचित्कस्यचि
देव तद्विज्ञानस्योदयात् । न च तस्य सर्वथैकस्वभावत्वेऽपि देशादिकृतविशेषात्तथेति वाच्यम् , प्राक्स्वभावविनिवृत्ति विना विशेषासम्भवेन तद्भावेऽनित्यत्वप्रसङ्गात् । नापि सहकारिणमपेक्ष्य तज्जनयतीति वाच्यम , एकान्तनित्यस्यापेक्षाऽयोगात् । सहकारिणा क्रिय.
माणस्य विशेषस्य ततोऽर्थान्तरत्वे नित्यस्य वस्तुनस्तेन प्रयोजनाभावात् वस्तुनस्तदव20 स्थत्वात् , वस्तुनि तस्य किश्चित्कारित्वाभावात् किश्चित्कारित्वे च तदिदं भिन्नमभिन्नं वेत्या
वृत्त्यानवस्थापातात् । विशेषस्यानर्थान्तरभूतत्वे स विशेषो विद्यमानः क्रियमाणो भवत्यविद्यमानो वा, नाद्यो विद्यमानः कथं क्रियते, करणे वा भूयो भूयः करणं स्यात् विद्यमानत्वाविशेषात् , नाप्यविद्यमानः क्रियते व्याहतत्वात , स तस्मादभिन्नोऽविद्यमानश्चेति, करणे
वाऽनित्यत्वापत्तिः क्रियमाणे च तस्मिन् पदार्थस्यैव क्रियमाणत्वात् तस्य तदभिन्नत्वात् । 25 विशेषस्याकरणे च स न तत्सहकारी स्यात् अकिञ्चित्करत्वात् । अकिश्चित्करस्यापि सह.
कारित्वे सर्वभावानामेव तत्सहकारित्वप्रसङ्गः स्यात् , न च वस्तुन एव तथास्वभावो यद्विशेषमकुर्वाणमेव प्रतिनियतं सहकारिणमपेक्ष्य कार्यकरणमिति न कश्चिदोष इति
१. एवञ्च विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात् , न तु मोदके तद्विशेषपरिणामस्य, तत्समानपरिणामाविनाभावाभावादिति बोध्यम् ॥