________________
:४३८: तस्वन्यायधिभाकरे
[ षष्ठकिरणे सवादथ च तयोरेव संयोग इति नियमाञ्चेति वाच्यम , तस्यानेकद्रव्यगुणत्वेनानेकद्रव्यस्यैव स्वद्रव्यत्वात् स्वानधिकरणद्रव्यान्तरस्य च परद्रव्यत्वात् तथा च स्वद्रव्यापेक्षयाऽस्तित्वाभावेऽयं संयोगोऽनयोरेवेति प्रतिनियमो. व्याहन्यत एव । अत्रायन्तु विशेषः, अव्यासज्यवृत्तिधर्माणामस्तित्वे स्वसमवायिद्रव्यमात्रापेक्षा, व्यासज्यवृत्तिधर्माणान्तु स्वपर्याप्तिम5 द्रव्यापेक्षेति ॥
क्षेत्रावलम्बनेन ते घटयति__ एवं घटस्य निजं क्षेत्रं भूतलादि परक्षेत्रं तद्भिन्नं कुडयादि स्वक्षेत्र इव परक्षेत्रेऽपि सत्त्वे क्षेत्रनियमानुपपत्तिप्रसङ्गः ॥
एवमिति । क्षेत्रमिति, अधिकरणमित्यर्थः, इहत्यत्व घटस्य क्षेत्रं तेन रूपेणास्ति 10 तद्भिनमिति भूतलादिभिन्नमित्यर्थः स्वानधिकरणदेश इति भावः, स्वानधिकरणदेशाऽवच्छे.
देन च नास्तीति तात्पर्यार्थः । उभयथा सत्त्वे इतरेतररूपापत्तिमाह-स्वक्षेत्र इवेति, क्षेत्रनियमानुपपत्तिप्रसङ्ग इति, अस्मिन्नेव क्षेत्रे घटोऽस्ति न तत्क्षेत्र इति नियमभङ्ग इत्यर्थः, उभयथाप्यसत्त्वे तु निराश्रयत्वापत्तिरिति भावः ॥
अथ कालमाश्रित्य ते निरूपयति15 एवं वर्तमानकाल एव घटस्य कालः, तद्भिन्नातीतादिः परकालः स्व.
कालवत्परकालेऽपि घटस्य सत्त्वे प्रतिकालनियमानुपपत्तिः प्रसज्येत । इति सप्तभङ्गीनिरूपणम् ॥
' एवमिति । घटाधिकरणीभूतः कालो घटस्य स्वकालः, तदनधिकरणः भूतकालो ध्वंस. कालो वा परकालः, उभयथा घटस्य सत्त्वे दोषमाह स्वकालवदिति, प्रतिकालेति, अस्मि20 नेव काले घटोऽस्ति नातीतादिकाल इति नियतकालव्यवहारो न भवेदेव इष्टापत्तौ तु
नित्यत्वापत्तिप्रसङ्गः, उभयथाऽसत्त्वे तस्य सर्वकालासम्बन्धित्वेनावस्तुत्वापत्तिः स्यादिति भावः । ननु घटस्य सत्त्वे यथा स्वरूपादिरवच्छेदकः तथा स्वरूपादौ स्वरूपाद्यन्तरमस्ति न वा ? यदि नास्ति कथं तर्हि तस्य सत्त्वं यद्यस्ति तर्हि कथं नानवस्था ? यदि सुदूरमपि
गत्वा गत्यन्तराभावेन कस्यचित्सत्त्वे स्वरूपाद्यनपेक्षयाऽनवस्था वार्यते तर्हि घटादीनां 25 सत्त्वेऽपि तथा भवतु किमनया स्वगृहप्रक्रिययेति मैवम्, वस्तुनो हि यथैवाबाधिता
प्रतीतिस्तथैव तद्व्यवस्था, प्रतीतिश्च स्वरूपादिघटितमूर्तेरेव सत्त्वादेाहिका, अन्यथा नानानिरंकुशविप्रतिपत्तीनां वारयितुमशक्यत्वात् । न च तस्यां स्वरूपादिकमन्यदेव प्रतीयते