________________
सप्तमी ]
न्यायप्रकाशसमलते येन स्वरूपान्तरापेक्षा स्यात् । न च जिज्ञासाधीना हि स्वरूपाद्यपेक्षा तथा च तत्रापि प्रकृत इव जिज्ञासा स्यादेव तथा चास्त्यनवस्थेति वाच्यम् , यत्रैव न सा तत्रैव विश्रान्त्या तदभावात् केनचिन्नयेन स्वरूपादेः स्वरूपत एवावच्छेदकत्वं निर्णीयैवास्तित्वादिप्रवृत्तरमवस्थाया अभावादिति । एतेनैकस्मिन् धर्मिणि सत्त्वासत्त्वरूपी विधिनिषेधात्मको धर्मों न सम्भवतो विधिमुखप्रत्ययविषयत्वनजुल्लिखितप्रत्ययविषयत्वरूपत्वेन शीतोष्णयोरिव 5 तयोः परस्परं विरोधात्, यत्रास्तित्वं तत्र नास्तित्वस्य यत्र च नास्तित्वं तत्रास्तित्वस्य विरोधात् । तथाऽस्तित्वाधिकरणस्य नास्तित्वाधिकरणस्य च भिन्नत्वेनैकत्र तयोस्सत्त्वे विभिन्नाधिकरणवृत्तित्वरूपवैयधिकरण्यं दोषः स्यात् , तथा येन रूपेणास्तित्वं येन च नास्तित्वं तादृशरूपयोरस्तित्वनास्तित्वनियामकस्वपररूपाद्यन्तरापेक्षायामनवस्थादौस्थ्यम् , तथा येन रूपेण सत्त्वं तेनैवासत्त्वस्य येनासत्त्वं तेनैव सत्त्वस्य च प्रसङ्गेन सङ्करः, येन 10 रूपेण सत्त्वं तेनासत्त्वमेव स्यान्न तु सत्त्वं येन रूपेण चासत्त्वं तेन सत्त्वमेव स्यान्न त्वसत्वमिति व्यतिकरो दोषः, तथा सत्त्वासत्त्वस्वरूपत्व इदमित्थमिति निश्चेतुमशक्तेसंशयो दोषः, ततश्चानिश्चयरूपाप्रतिपत्तिर्दोषः, ततश्च सत्त्वासत्त्वात्मनो वस्तुनोऽभावो दोष इत्यष्टौ दोषासम्भवन्तीति प्रत्युक्तम् , स्वपररूपाद्यपेक्षया विवक्षितयोस्सत्त्वासत्त्वयोः प्रतीयमानयोर्वस्तुन्यविरोधात् स्वरूपादिना सत्त्वस्येव पररूपादिनाऽसत्त्वस्यापि प्रतीतिसिद्धत्वेनानुपलम्भ- 15 प्रयुक्तस्य विरोधस्याभावात् । न च विरोधादेकत्र तयोः प्रतीतिमिथ्येति वाच्यम् , परस्पराश्रयात्, विरोधे सति तेन बाध्यमानत्वान्मिथ्यात्वसिद्धिः, सिद्धे च तस्मिन् सत्त्वासत्त्वयोर्विरोधसिद्धिरिति । न च वध्यघातकभावरूपोऽप्यहिनकुलादिवद्विरोधः, तस्यैकस्मिन् काले वर्तमानयोस्सम्बन्धे सत्येव भावात् , न ह्यसंयुक्तमहिं नकुलो नाशयति, तथा सति सर्वत्राहे. रभावप्रसङ्गात् तथाप्रकृते सति सम्बन्धे बलीयसाऽपरो बाध्यत इति वाच्यं नहि तथा सद- 20 सत्त्वयोः क्षणमात्रमपि परेण सत्त्वमेकत्राभ्युपगम्यते तथा च कथं वध्यघातकरूपो विरोधः, अभ्युपगमे वा तुल्यबलत्वेन तयोर्न वध्यघातकभावः । नापि सहानवस्थानलक्षणो विरोधः, कालभेदेनैकत्र वर्तमानयोः श्यामत्वपीतत्वयोरेव तत्सम्भवात् , उत्पद्यमानो हि पीतं श्यामो विनाशयति, नहि तथास्तित्वं नास्तित्वव पूर्वोत्तस्कालभावि, अस्तित्वकाले नास्तित्वाभावे सत्तामात्रं सर्व प्राप्नुयात् , नास्तित्वकालेऽस्तित्वाभावे तु सत्त्वाश्रयबन्धमोक्षव्यवहारो 25 विरुद्धयेत, सर्वथाऽसत आत्मलाभासम्भवात् सर्वथा च सतो विनाशासम्भवात् । न चापि प्रतिबध्यप्रतिबन्धकभावरूपो विरोधः, अस्तित्वकाले नास्तित्वस्य प्रतिबन्धकाभावात् । स्वरूपेणास्तित्वकालेऽपि पररूपादिना नास्तित्वस्य प्रतीतिसिद्धत्वात् । सत्त्वासत्वयोरेकाधिकरणवृत्तित्वेन प्रतीतत्वाच्च न वैयधिकरण्यं दोषः, नाप्यनवस्थादोषः, अनन्त