________________
सप्तभङ्गी ]
न्यायप्रकाशसमलङ्कृते
ज्ञानस्य । समभिरूढनयार्पणतः शब्दभेदेऽप्यर्थभेदधौव्येण घटकुटादिशब्दानामर्थभेदोऽस्ति तथा च घटत इति व्युत्पत्त्या घटनक्रियाकर्तृत्वं घटस्य स्वरूपं भवति, इतरच पररूपं भवति, घटश्च तेन रूपेणास्ति पररूपेण च नास्ति, उभयथापि सत्त्वे भिन्नप्रवृत्तिनिमित्ताभावेन शब्दभेदो न स्यात्, उभयथाप्यसत्त्वे घटादिशब्दानां निरर्थकत्वापत्तेः । एवं सम्मत्याद्यनुसारेण नामस्थापनाद्रव्यभावभिन्नेषु विधित्सिताविधि - 5 त्सितप्रकारेण सत्त्वासत्त्वे ताभ्याश्च युगपदवाच्यत्वं भाव्यं व्यतिरेके च प्रतिनियतव्यवहारोच्छेदो बाधकः । अत्रायं क्रमोऽवसेयः नामस्थापनाद्रव्यभावभिन्नेषु घटादिषु विधित्सिताविधित्सितप्रकारेण सत्त्वासत्त्वे, स्वीकृत प्रतिनियताकारे नामादिके घटादौ संस्थानमादाय, स्वीकृत प्रतिनियतसंस्थानादिके मध्यमावस्थारूपवर्त्तमानकालीन पर्यायमादाय, ततो मध्यमावस्थारूपे तस्मिन् वर्त्तमानावर्त्तमानक्षणपर्यायमादाय, क्षणपरिणतिरूपे च चक्षुर्ज - 10 न्यज्ञानविषयत्वाविषयत्वाभ्यां लोचनप्रतिपत्तिविषये तत्रैव घटतदितरशब्दवाच्यत्वाभ्यां घटशब्दाभिधेये च हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया, उपयुक्त त्वभिमतार्थबोधकत्वानभिमतार्थबोधकत्वाभ्यां विज्ञेये इति ॥
तदेवं स्वरूपपररूपाभ्यां सदसत्त्वं व्यवस्थाप्य द्रव्यावलम्बनेन तदाह
एवं शुद्धं मृद्द्रव्यं घटस्य स्वरूपं, तद्भिन्नं स्वर्णादि परद्रव्यम्, तद्रूपे- 15 णापि घटादीनां सत्त्वे द्रव्यस्य प्रतिनियमो न स्यात् ॥
: ४३७ :
एवमिति, पूर्वोपदर्शितस्वपररूपप्रकारेणेत्यर्थः, शुद्धं मृद्रव्यमिति मृस्वेन लोकप्रसिद्धमित्यर्थः, तेन मृत्तिकामात्रस्य न ग्रहः सुवर्णादीनामपि मृद्द्रव्यत्वेन पररूपत्वासम्भवात् एवञ्च पार्थिवत्वेनेत्यस्यापि लाभः । स्वर्णादीत्यादिनाऽबादीनां ग्रहः । एवञ्च घटः स्वद्रव्येण मृदात्मना पार्थिवत्वेन वाऽस्ति परद्रव्येण स्वर्णादिनाऽवादित्वेन वा नास्तीति भावः । 20 अन्यथेतरेतररूपापत्त्याऽयं मृदात्मकोऽयं स्वर्णात्मक इत्यादिद्रव्यप्रतिनियमो न स्यादित्याशयेनाह तद्रूपेणापीति, स्वर्णादिरूपेणापीत्यर्थः, तथोभयथाप्यसत्त्वे घटादिव्यवहारविलोप इत्यपि बोध्यम् । न चोभयथापि सत्त्वे न द्रव्यप्रतिनियमव्याघातः तथाहि अनेकद्रव्यनिष्ठस्यापि संयोगविभागादेर्न द्रव्यप्रतिनियमव्याघातो घटपटसंयोगस्य घटात्मना पटात्मनापि
१ घटादिषु विधित्सितरूपेण सत्त्वमविधित्सितरूपेणासत्त्वं ताभ्यां युगपदवाच्यं विज्ञेयं विपर्यये प्रतिनियतव्यवहारोच्छेदो बाधकः, विधित्सिते घटादौ स्वसंस्थानापेक्षया सत्त्वं परसंस्थानापेक्षया चासत्त्वं ताभ्यां युगपदवाच्यत्वमित्येवंरीत्या भङ्गत्रयं प्रमाणात्मकं विज्ञेयमिति भावार्थ: । संस्थानमादायेति, तद्वृत्तिस्थौल्यादिधर्ममादायेत्यर्थः । मध्यमावस्थारूपेति, पूर्वोत्तरकुसूलकपालाद्यन्तरालवर्त्तिपर्यायेत्यर्थः स्पष्टमन्यत् ॥