________________
: ४३६ :
तत्त्वन्यायविभाकरे
[ षष्टकिरणे
अथ स्ववृस्यसाधारणधर्म एव स्वरूपमित्युक्त्वा पुनरिदानीमन्येऽपि घटस्य स्वरूपाः पररूपाश्च भवन्तीत्यभिप्रायेणाह —
एवं तन्निष्ठाः स्थौल्यादिधर्मवर्त्तमानकालीनपर्याय पृथुवुध्नोदराद्याकाररूपादिगुणघटनक्रियाकर्तृत्वादयस्स्वरूपा अन्ये पररूपा बोध्याः ॥
5
एवमिति । तन्निष्ठा इति घटनिष्ठा इत्यर्थः । स्थौल्यादिधर्मेति, स्थौल्यादयो धर्माः, वर्त्तमानकालीन पर्यायविशेषाः, पृथुबुध्नोदराद्याकाराः, रूपादिगुणाः, घटनक्रियाकर्तृत्वमि - त्यादयस्वरूपास्तद्भिन्नाः पररूपा इत्यर्थ: । घटमात्रस्य पूर्वं स्वपररूपमुपदर्थ घटविशेषस्य तद्दर्शयितुं वा प्राहैवमिति । तन्निष्ठा इति तत्तद्घटनिष्ठा इत्यर्थः, अयं भावः घटत्वात्रान्ते हि घटविशेषे योऽयं स्थौल्यादिधर्मस्स तस्य स्वरूपं घटान्तरनिष्ठो धर्मविशेषः पररूपम्, 10 घटोऽयं स्थौल्यादिस्वरूपेणास्ति, अन्यघटनिष्ठधर्मेण नास्ति, स्वरूपेणाप्यसत्त्वे घटोऽयमसन् स्यात्, पररूपेणास्तित्वोपगमे सर्वघटानामैक्यप्रसङ्गेन सामान्याश्रयव्यवहारविलोपप्रसङ्गः । अनेकघटवृत्तिसामान्याभावात् । प्रतिक्षणं घटादौ सजातीयपरिणामोत्पत्तेस्सिद्धान्तसिद्धतया ऋजुसूत्रनयतो वर्त्तमानक्षणवृत्तिघटपर्यायो घटस्य स्वरूपं, अतीतानागतक्षणनिष्ठघटपर्यायाः पररूपं, तथा च वर्त्तमानकालीनपर्यायेण घटोऽस्ति, क्षणान्तरवृत्तिपर्यायेण च नास्ति, तेन 15 रूपेणापि सत्वे घटस्यैकक्षणावृत्तित्वं स्यात् स्वीयरूपेणाप्यसत्त्वे घटव्यवहारस्यैव विलोपा - पत्तिः, विनष्टानुत्पन्नघटव्यवहाराभाव इव । अथवा पूर्वोत्तरकुमूलकपालाद्यवस्थाकलापो मध्यवर्त्तघटस्य पररूपं मध्यवर्त्तिघटपर्यायः स्वरूपं तथा च यदि तादृशपररूपेणापि स्यात्तदा कुसूलाद्यवस्थायां तदुपलब्धिप्रसङ्गो घटपर्यायोत्पत्तिविनाशार्थं प्रयत्नवैफल्यप्रसङ्गश्च स्यात् । यदि च स्वरूपेणापि न स्यात्तर्हि तत्कार्यजलाहरणादिकमपि नोपलभ्येत । कालविशेषाव - 20 स्थायिनि क्षणमात्रवर्त्तिनि वा घटे वर्त्तमानो यः पृथुबुध्नोदराद्याकारस्स तस्य स्वरूपं, इतराकारः पररूपम्, स्वरूपेण सोऽस्ति पररूपेण च नास्ति, उभयथापि सत्त्वे तद्भट इतरेषां व्यवहारप्रसङ्गः, आकारविशेष सत्त्वाधीनत्वाद्व्यवहाराणाम् । उभयथापि नास्तित्वे घटासंवप्रसङ्गः । रूपविशिष्टो घटचक्षुर्मा इति व्यवहारे रूपद्वारा घटो गृह्यत इति रूपं घटस् स्वरूपं, न रसादिमुखेन चक्षुग्राह्य इति रसादिकं पररूपं, तथा च स स्वरूपेणास्ति पर25 पेण च नास्ति, उभयथापि सत्त्वे रसस्यापि चक्षुर्जन्यज्ञानविषयत्वापत्त्या रसनादीन्द्रियकल्पना व्यर्था स्यात् । उभयथापि नास्तित्वे घटस्याग्रहणप्रसङ्गः रूपादिज्ञाननियतत्वाद्वटादि
क्षिताचास्मिन् पदार्था इति क्षेत्र, कल्यन्ते कलयिष्यन्ते कलिताश्चास्मादिति कालः भवति भविष्यत्यभूदिति भावः पर्याय इति सत्तैव द्रव्यक्षेत्रकालभावात्मना विशेष्यते तस्या एव तथा व्यवहारविषयत्वघटनादिति ॥