________________
सप्तभङ्गी ]
न्यायप्रकाशसमलङ्कते पसत्त्वं, न चानयोरेकत्वमेव, अविगानेन सम्यगुभयोपलब्धेः, न च नानात्वमेव, तळ्यवस्थाs योगात् तथानुपलब्धेश्चेत्यन्योऽन्यानुविद्धं भेदाभेदवृत्तितत्स्वभावं विशिष्टमुभयमेव तत् अन्यथा वस्तूनां वैशिष्टयानुपपत्तेरिति । ननु भवतु सत्त्वमसत्त्वश्च वस्तुधर्मो वस्तुस्वरूपत्वं तयोः कथम् , तथाहि धर्मधर्मिणोः किन्तावद्भेद उताभेद आहोस्विद्भेदाभेदो वा, नाद्यः, वस्तुनस्सदसदात्मकत्वासम्भवात् न द्वितीयः, एकधर्माभिन्नत्वात्तयोरैक्यापत्तेस्तत्स्वरूपवत्, 5 धर्मिणो वा भेदस्स्यात् सदसत्त्वयोर्भेदात् नापि तृतीयः, येनाकारेण भेदस्तेन भेदैकान्त्यात् येन चाकारेणाभेदस्तेनाभेदैकान्त्यात् , तथाप्येकस्योभयरूपत्वासम्भवात् , न च येनैवाकारेण भेदस्तेनैवाभेदो येन चाभेदस्तेन भेद इति वक्तुं युज्यते विरोधादिति चेन्मैवम् , प्राथमिकविकल्पद्वयोक्तदोषस्यानभ्युपगमतिरस्कृतत्वात् भेदाभेदपक्षस्यैवाभ्युपगमात् । न चात्रापि दोष उक्त एवेति वाच्यम् , अन्योऽन्यव्याप्तिभावेनास्य जात्यन्तरात्मकत्वेन केवलभेदाभेदप्रत्युक्तदोष- 10 स्यात्रानवतारात् । तस्माद्येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवेत्यत्यन्सपरित्यक्तानेकान्तवादविषयमेतत् । अभेदाननुविद्धस्य केवलभेदस्य भेदाव्याप्यस्याभेदस्य चाप्रसिद्धेः, न च येनाकारेण भेदस्तेनैवाभेद इत्याद्यपि साम्प्रतम् , सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः, तर्हि कथं धर्मधर्मिणोर्भेदाभेद इति चेत्कथश्चिद्भेदः कथञ्चिदभेद इति गृहाण, धर्माणां मिथो भेदात्प्रतिनियतधाश्रितत्वाच कथश्चिद्भेदः, धर्माणां धर्मिणा सर्वथै- 15 कत्वे धर्मतयापि भेदासम्भवात् , तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वात्कथञ्चिदभेदः, अत्यन्तभेदे धर्मधर्मिकल्पनाऽसम्भवात् , अतिप्रसङ्गात् , अनुवृत्तव्यावृत्तस्य च वस्तुनोऽध्यक्षसिद्धत्वेन न भेदाभेदस्योत्प्रेक्षितत्वमपि, अनुभवो हि पुरोऽवस्थिते घटादौ तदतद्रूप एवोपजायते, अन्यथा वस्त्वभावप्रसङ्गादिति । ननु जीवादीनां द्रव्यत्वावच्छिन्नानां सत्त्वासत्त्वादिसप्तभङ्गीसाधने किं स्वद्रव्यं किं वा 20 परद्रव्यं, तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे च स्वत्वस्य दुर्वचत्वादिति चेदुच्यते शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकं, अशुद्धश्च परमसद्रव्यं असत्त्वावच्छेदकं, शुद्धत्वाशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयसाक्षिकाखण्डोपाधिरूपे, न च शुद्धद्रव्यस्य स्वपरद्रव्यव्यवस्था कथं, तस्य द्रव्यक्षेत्रकालभावात्मकत्वादिति वाच्यम् , सकलद्रव्यक्षेत्रकालभावरूपं व्यापकं स्वद्रव्यं विकलद्रव्यादिक परद्रव्यमित्यङ्गीकारादेवमन्यत्रापि भाव्यं ॥ 25
.. १. सत्त्वासत्त्वयोभिन्नत्वादिति भावः । ऐक्यापत्तेरिति, तदभिन्नाभिन्नस्य तदभिन्नत्वनियमादिति ॥ २. स्वभावस्य धर्मत्वेन धर्मधर्मिणोरेकान्तभेदे धर्मिणो निस्स्वभावत्वं स्यात् तथा च ज्ञेयत्वादिधर्माननु वेधार्मिणोऽभावप्रसङ्गः, तदभावादेव च धर्माणां निराश्रयत्वादाश्रयं विना ग्रहणासम्भवादभावप्रसङ्ग इत्यतिप्रसङ्गपदार्थः ॥ ३. ज्ञानवद्या हि वस्तुव्यवस्थितिः नहि भेदाभेदात्मकत्वं संवेद्यते, उभयरूपस्य संवेदनस्याभावादित्याशंकायामाहानुभवो हीति ॥ ४. भाव एव हि द्रवति द्रोष्यति अदुवदिति द्रव्यं, क्षीयन्ते क्षेष्यन्ति