________________
:४३४: तस्वन्यायविभाकरे
[पकिरण एकद्रव्याश्रयत्वस्य चेव सत्त्वासत्त्वयोरेकाश्रयत्वस्याविरुद्धत्वात् । न च स्वस्वभावादिना सत्त्वमेव परस्वभावादिनाऽसत्तं स्यान्न ततो भिन्नमिति वाच्यम् , तस्यैकस्वभावत्वेऽवस्तुत्वप्रसङ्गात् , यदि हि घटत्वादिना सत्त्वमेव पटत्वाद्यवच्छिन्नासत्त्वं स्यात् तदा पटत्वादिनापि
सन् स्यात् पटत्वाद्यवच्छिन्नासत्त्वस्य घटत्वावच्छिन्नसत्त्वाव्यतिरिक्तत्वात् , तथा घटत्वेनाप्य5 सन् स्यात् पटत्वाद्यवच्छिन्नासत्त्वाभिन्नत्वाद्धटत्वावच्छिन्नसत्त्वस्य, तथा च तदितररूपाप
त्यादिनाऽपदार्थत्वप्रसङ्गो दुर्वार एव स्यात् । ननु निरुपाख्यं किश्चित् पररूपाद्यसत्त्वं नास्त्येव येनाव्यतिरिक्तत्वविकल्पकल्पनयाऽवस्तुत्वापत्तिस्स्यात् , किन्तु स्वरूपादिसत्त्वमेव विशिष्टमेकस्वभावं पररूपाद्यसत्त्वमुच्यते, अतो नोक्तदोष इति चेन्मैवम् , स्ववाचैवानेकान्तत्व
प्रतिपादनात् , विशिष्टं स्वरूपावच्छिन्नसत्त्वमेव पररूपाद्यवच्छिन्नासत्त्वमुच्यते सदसद्रूपत्वञ्च 10 वस्तुनो न प्रतिपद्यत इति चित्रम् , स्वपररूपाद्यवच्छिन्नसत्त्वासत्त्वोभयरूपतामन्तरा वस्तुनो
विशिष्टताया असम्भवात् । नन्वेवमपि सदसद्रूपं वस्तु न सम्भवति, तथाहि असदिति प्रसज्यप्रतिषेधो वा स्यात्पर्युदासो वा, किश्चातः, उभयत्र दोषात् सन्न भवतीत्यसदिति प्रसज्यप्रतिषेधे सनिवृत्तिरूपनिरुपाख्यस्यासत्त्वेन प्रमाणागोचरत्वाद्वस्तुधर्मत्वानुपपत्तेः, तत्त्वेऽ
भ्युपगम्यमाने वा निरुपाख्यधर्मवतस्सोपाख्यत्वासम्भवेन वस्त्वपि निरुपाख्यं स्यात् , सतोऽ 15 न्यदसदिति पर्युदासाश्रयणे सदन्तरमसद्भवति, एवमपि वस्तुनस्सदात्मकत्वेन सतोऽन्यत्वा
भावान्न सदसदात्मकं, नहि सत् सदन्तरात्मकमिति चेन्न उभयपक्षाश्रयणेऽपि वस्तुनस्सदसदास्मकत्वात् , सत्त्वाननुविद्धस्यासत्त्वस्याभावेन सन्न भवतीत्यत्रापि परद्रव्यादिरूपेण सत एव प्रतिषेधान् तस्य च तत्रासत्त्वात्तत्स्वरूपस्य च सत्त्वानुवेधान्न निरुपाख्यमेव तदसत्त्वमिति
न तत्पक्षोपक्षिप्तदोषप्रसक्तिः, पर्युदासपक्षदोषस्तु अनभ्युपगमादेव निरस्तः । तथा च सदस20 दात्मकं वस्तु, तत्रं न स्वरूपसत्वासम्पृक्तं पररूपासत्त्वं नवा पररूपासत्त्वासम्पृक्तं स्वरू.
१. न चैकस्मिन्नपि द्रव्ये प्रत्यक्षविषयता भिन्नकाले भिन्नकाले च शाब्दीविषयतेति यकालभेदान्न तयोविरोध इति वाच्यमेककालावच्छेदेन चित्रज्ञाने नीलतदितरविषयत्वयोर्विरोधेनाभानापत्तेः, न च तत्र तथाप्रतीतिरेवाविरोधसाधिका तयोरिति वाच्यं प्रकृतेऽपि तुल्यत्वात् । किञ्च भावाभावयोर्विरोधस्यापि तत्तत्प्रतियोगिघटितत्वेन विशेष एव विश्रान्ततया जात्यन्तरभूते वस्तुनि तदेकदेशसत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति ॥ २. निरुपाख्यं-निःस्वभावम् पररूपाद्यसत्त्वं-पररूपाद्यवच्छिन्नः सत्त्वाभावः बौद्धमतेनायं पूर्वपक्षः । विशिष्टमेकस्वभावं-स्वेतरसकलव्यावृत्तिरूपं सदेकस्वभावम् ॥३ परद्रव्यादिरूपेण सत: पटादेस्स्वद्रव्यादिरूपेण सति घटे प्रतिषेधः क्रियते पररूपाद्यवच्छिन्नसत्त्वस्य च घटेऽभावात् तदप्यसत्त्वं न निरुपाख्यं तत्स्वरूपसत्त्वस्यानुवेधात् सत्त्वाभावो हि घटात्मकः तस्मात्तत्सत्त्वेन सोऽनुविद्ध इति न निरुपाख्य इति भावः ॥ ४. घटो हि स्वरूपणास्ति, पररूपाद्यवच्छिन्नपटाद्यात्मकस्तु न भवति एवञ्च सत्त्वं तत्प्रतिषेधश्च घटस्वरूपमतस्सत्त्वमसत्त्वानुविद्धमसत्त्वञ्च सत्त्वानुविद्धमिति भावः ॥