________________
सहभजी
न्यायप्रकाश
____ननु पूर्वोदितेषु भङ्गेषु सत्त्वाद्यवच्छेदकतया स्वद्रव्यक्षेत्रकालभावा उक्ताः तेषां स्वत्वमरत्वविवेकाय प्रथमं भावपदवाच्यं स्वरूपं दर्शयत्यसाधारणत्वादादौ
अत्र सर्वत्र घटस्य स्वरूपमयं घट इति ज्ञानीयप्रकारताश्रयान्यूनानतिप्रसक्तं घटत्वमेव, तादृशप्रकारत्वानाश्रयं विशेष्यावृत्ति च पटत्वादिकं पररूपं, नतु तद्भिन्नत्वमात्रं, द्रव्यत्वादीनां पररूपत्वापत्तेः । घटादीनाञ्च 5 पररूपादिनापि सत्त्वे पदार्थत्वव्याघातप्रसङ्गः, स्वपररूपग्रहणव्यवच्छेदाभ्यां हि पदार्थत्वं व्यवस्थाप्यम् ॥
अत्र सर्वत्रेति । पूर्वोदितेषु सप्तसु भङ्गेष्वित्यर्थः, अयं घट इति ज्ञानीयप्रकारतेति, तादृश. . ज्ञाननिरूपितप्रकारताश्रयत्वे सति अन्यूनानतिप्रसक्तत्वं घटत्वस्यैव घटमात्रवृत्तित्वे सति घटेतरावृत्तित्वात् , तस्मात्सदृशपरिणामलक्षणो घटत्वरूपो धर्मो घटस्य स्वरूपमिति भावः । पर- 10 रूपमाह तादृशेति, अयं घट इति ज्ञाननिरूपितेत्यर्थः, तथा च तादृशप्रकारत्वानाश्रयत्वं पठत्वादावेव, ते च पटत्वादयः विशेष्ये घटे न वर्तन्त इति पररूपा भवन्तीति भावः । तादृशप्रकारत्वाश्रयभिन्नत्वमानं तु नः पररूपत्वं तस्य द्रव्यत्वादावपि सत्त्वेन पररूपत्वापत्तेरित्याह न तु तद्भिन्नत्वमात्रमिति, हेतुमाह द्रव्यत्वादीनामिति, ननु घटादिकमस्ति नास्तीति वदताs स्तित्वं नास्तित्वञ्च वस्तुधर्मतयाऽभ्युपगतं भवेत् तत्कथमेकमेव घटादिकं वस्तु सच्चासञ्च- 15 स्यात् सत्त्वस्यासत्त्वपरिहारेणासत्त्वस्य च सत्त्वपरिहारेण व्यवस्थितत्वात् , अन्यथा तयोरविशेषः स्यात् , तथा च घटादिकं यदि सत्तर्हि कथमसत्, यदि चासत् कथं सदेकत्र सदसत्त्वयोर्विरोधादित्याशंकायामाह घटादीनाञ्चेति, निरवच्छिन्नसत्त्वासत्त्वयोरप्रामाणिकत्वेन स्वरूपादिघटितमूर्तेरेव सत्त्वादेः प्रतीतेः घटादिकं वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येव वस्तुतत्त्वं, स्वरूपेणेव पररूपेणापि सत्त्वे घटोऽप्यघट: स्यात् , अघटस्वरूपपटादिवत्, पर- 20 रूपेणेव स्वरूपेणाप्यसत्त्वे घटादिकं घटवस्त्वेव न स्यात् स्वस्वभावादिनाप्यस स्वात् खरविषाणवदिति इतरेतररूपापत्त्या पदार्थस्वरूपहानिप्रसङ्ग इति भावः, घटाद्यात्मकत्वश्च स्वस्वभावादिरूपेण ग्रहणात्परस्वभावादिना व्यवच्छेदाच्च सम्भवति नान्यथेत्याशयेनाह स्वपरेति, न चैकत्र वस्तुनि सत्त्वमसत्त्वञ्च परस्परविरुद्धधर्मयोस्सामानाधिकरण्यायोगाद्युक्तिविरुद्धमिति वाच्यम् , स्वरूपपररूपाभ्यां विवक्षितयोस्तयोश्शीतोष्णस्पर्शवद्भिन्नाधिक- 25 रणत्वाप्रतीत्या विरोधासिद्धेः, तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावात् , न च दृष्टेऽनुपपन्नं नाम, स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोरेकविषयत्वस्य
५५