________________
:४३२: तत्त्वन्यायविमाकरे
[ षष्ठकिरणे धिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याद्यवच्छिन्ननास्तित्वविशिष्टयुगपस्वपरद्रव्याद्यवच्छिन्नसत्त्वासत्वविषयकावक्तव्यत्ववानिति बोधः ।।।
स्यान्नास्ति चेति, निषेधात्मना मुख्यविषयतावच्छिन्ना योभयात्मना युगपदवक्तव्यत्वविषयता तद्वतो बोधोऽस्माद्भवतीत्याशयेनाह-परद्रव्याद्यपेक्षयेति । मतान्तरेण तु घटस्यैको 5 देशो नास्तित्वे नियतोऽपरश्च सत्त्वासत्वाभ्यां युगपदादिष्टस्स घटस्तथाविधविकल्पवशात् नास्ति चावक्तव्यश्च भवति, तात्पर्यार्थमाह तथा चेति, शिष्टं स्पष्टम् ॥
अथ सप्तमभङ्गवाक्यार्थमाह
स्यादस्ति नास्ति चावक्तव्यश्च घट इति सप्तमं वाक्यन्तु क्रमार्पित16 स्वपरद्रव्यादीन् सहार्पितस्वपरद्रव्यादीनाश्रित्यास्तित्वनास्तित्वविशिष्टा
वक्तव्यत्ववद्धटमाह । तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिक्रमाप्तिस्वपरद्रव्याचवच्छिनास्तित्वनास्तित्वोभयविशिष्टसहार्पितस्वपरद्रव्याद्यवच्छिन्नास्तित्वना
स्तित्वोभयधर्मविषयकावक्तव्यत्ववान् घट इति बोधः॥ 15 स्यादिति, क्रमादुभयमुख्यविषयताद्वयावच्छिन्नावक्तव्यत्वमुख्यविषयताको बोधोऽस्य
फलमित्याशयेनाह-क्रमार्पितेति, मतान्तरेण तु यस्यैको देशोऽस्तित्वेऽपरो नास्तित्वेऽन्यश्चोभयथा नियतस्तादृशो घटो विकल्पवशादस्तिनास्त्यवक्तव्यश्च भवतीति । भावार्थमाह तथा चेति स्पष्टम् । वाक्येष्वेषु सप्तसु नयविभागस्तु सामान्यग्राहिणि सङ्ग्रहे प्रथमो भङ्गः, विशेषग्राहिणि व्यवहारे द्वितीयः सङ्ग्रहव्यवहारयोस्तृतीयः, सूक्ष्मवर्त्तमानक्षणग्राहिणि 20 ऋजुसूत्रे चतुर्थः एकदोभयार्पणाया वर्तमानक्षणनियतत्वात् , पञ्चमस्सङ्ग्रहर्जुसूत्रयोः, षष्ठो
व्यवहारर्जुसूत्रयोः, सप्तमस्तु सङ्ग्रहव्यवहारर्जुसूत्रेष्विति । एते त्रयो नया ववभिप्रायरूपत्वादर्थनयाः, प्रथमद्वितीयावेव भङ्गौ शब्दादिषु त्रिषु नयेष्वपीति केचित् ॥
१. अयम्भावः अर्थप्रधानो ववभिप्रायोऽर्थनयः सङ्ग्रहादिः, व्यञ्जनस्य परार्थत्वात्तच्छवणसम्भूतः शन्दादिश्रोत्रभिप्रायस्तु शब्दप्रभवमर्थमुपसर्जनतया व्यवस्थापयति, अतस्स शब्दनयश्शब्दसमभिरूढवम्भूतभेदभिन्नः । तत्र वचनमार्गश्च सविकल्पनिर्विकल्पकभेदेन द्विविधः, सविकल्पं सामान्यं निर्विकल्प: पर्यायः, तत्प्रतिपादकवाद्वचनमपि तथा संज्ञाक्रियाभेदेनाभिन्नार्थप्रतिपादकावपि शब्दसमभिरूढौ भेदजिज्ञासारूपविकल्पसाहित्यात्तदभिप्रायेण सविकल्पको वचनमार्गः प्रथमभङ्गकरूपः, एवम्भूतस्तु क्रियाभेदाद्भिन्नमेवार्थ तत्क्षणे प्रतिपादयतीति तदुसरं भेदजिज्ञासारूपविकल्पविरहान्निर्विकल्पो द्वितीयभङ्गरूपो बचनमार्गः । अवक्तव्यत्वभङ्गस्तु व्यञ्जननये न सम्भवत्येव व्यञ्जननयस्य श्रोत्रभिप्रायत्वेन तत्र शब्दाभावात् तथा चैतन्नये प्रथमद्वितीयावेव भङ्गाविति ।।