________________
सप्तमजी ] न्यायप्रकाशसमलङ्कृते .
:४३१ : सत्त्वादिरूपेणेति, आदिनाऽसरवस्य ग्रहः, अवक्तव्य एव घट इत्युक्तौ घटस्य सर्वथाऽवाच्यत्वं प्राप्नोति तथा चास्तित्वादिमुखेनापि घटस्याभिधानं न स्यादेवश्च प्रथमद्वितीयादिभङ्गभङ्गप्रसङ्ग इति स्यात्पदप्रयोगः क्रियते, तेन च सत्त्वाचेकैकधर्ममुखेन वाच्यमेव सर्व वस्तु, युगपत्प्रधानभूतसत्त्वासत्त्वोभयधर्मावच्छिन्नत्वेनावाच्यत्वमित्याशयेन सत्वादिरूपेण वक्तव्य एव सन्नित्युक्तम् ॥
अथ पञ्चमभङ्गवाक्यार्थमाह
स्यादस्ति चावक्तव्यश्च घट इति पञ्चमवाक्येन स्वद्रव्याद्यपेक्षया स्तित्वविशिष्टो युगपत्स्वपरद्रव्याद्यपेक्षयाऽवक्तव्यत्वविशिष्टो घटो बोध्यते, तथा चाभेदप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मात्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावा- 10 प्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्वविशिष्टयुगपत्स्वपरद्रव्याद्यवच्छिन्नसत्त्वासत्त्वोभयविषयकावक्तव्यत्ववानिति बोधः॥
स्यादस्ति चेति, विध्यात्मना मुख्यविषयतावच्छिन्ना योषयात्मना युगपदवक्तव्यत्वमुख्यविषयता तद्वतो बोधोऽस्य भङ्गस्य फलमित्याशयेनाह-स्वद्रव्याद्यपेक्षयेति, मतान्तरेण तु एको देशो घटस्य धर्मिणोऽस्तित्वे आदिष्टोऽपरश्च देशोऽस्तित्वनास्तित्वप्रकाराभ्यामेक. 15 दैव विवक्षितः, तदा स घटोऽस्ति चावक्तव्यश्च भवति, उक्तोभयधर्माकान्तदेशद्वारेण धर्मिणो विवक्षितत्वात् । अत एव प्रथमचतुर्थभङ्गसंयोगेनान्यथासिद्धिव्युदासः, तत्र हि केवलं धर्मविवक्षा, सा च देशाविशेषितद्रव्य एव सम्भवति, अत्र तु देशद्वारा द्रव्य उभयधर्मविवक्षा, एवमग्रेऽपि भाव्यम् । फलितार्थमाह तथा चेति, स्पष्टमन्यत् ।।
षष्ठभङ्गवाक्यार्थमाह
स्थानास्ति चावक्तव्यश्चेति षष्ठं वाक्यं परद्रव्याद्यपेक्षया नास्तित्वविशिष्टं युगपत्प्राधान्येन स्वपरद्रव्याद्यपेक्षयाऽवक्तव्यत्वविशिष्टं घट प्रतिपादयति । तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमाना
20
१. अनेकद्रव्यपर्यायात्मकत्वाद्धटस्य सतः कञ्चिद् द्रव्यार्थविशेषमाश्रित्यास्तीति घटस्य व्यपदेशः, तस्यैवान्यघटद्रव्यसामान्यं तद्विशेषं द्वयं वाङ्गोकृत्य युगपद्विवक्षायामवक्तव्यता, घटत्वेन घटविशेषेण कथञ्चिवर्तमानो घटः घटवाघटत्वादिना तदेकविशेषापरविशेषादिना वा युगपद्विवक्षायां स्थादस्ति चावक्तव्यश्च घट इति पञ्चमवाक्यबोधः ॥