________________
:४२८: तत्त्वन्यायविभाकरे
[ षष्ठकिरणे मार्पितस्वपररूपाचवच्छिन्नास्तित्वनास्तित्वोभयधर्मवानिति बोधः॥ - स्यादस्तीति । मलयगिरिपादाभ्युपगमापेक्षयात्र शाब्दबोध उक्तो व्याख्यातप्रायश्च । प्रथमद्वितीयचतुर्थवाक्यानामेव सकलादेशत्वं निरवयवद्रव्यविषयत्वाच्छेषाणान्तु सावयवद्रव्यविषयत्वाद्विकलादेशरूपत्वं देशभेदं विनैकत्र क्रमेणापि सदसत्त्वविवक्षायास्सम्प्रदायविरुद्धत्वा5 दिति सम्मत्याद्यनुसारेण तु घटस्यैकदेशः अस्तित्वेऽवच्छेदकतयाऽपरश्च देशो नास्तित्वस्याव
च्छेदकत्वेन विवक्षितस्तदा देशाभेदद्वारा घटोऽप्यस्ति नास्ति च भवति, अक्षिपाणिगतकाणत्वकुण्टत्वापेक्षया यथा देवदत्तः काणः कुण्टः । अन्यथा क्रमेणाप्येकत्र सदसत्त्वविवक्षाया अनुदयेन भङ्गविलोपः प्रसज्येत । देशोऽप्यवयवो धर्मो वा, अवयवावयविनोधर्मधर्मिणोश्च कथञ्चि
दभेदेनावयवादिधर्मैरपि अवयव्यादीनां तथा व्यपदेशस्सुघट एव, उभयप्रधानावयवाभेदेना10 स्तित्वं नास्तित्वञ्चात्राय॑ते, तथा चास्माद्वाक्यात्स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छि
नास्तित्वनास्तित्वरूपधर्मद्वयप्रकारतानिरूपितकविशेष्यताशालिबोधो भवति । इदश्चौपादानिकबोधापेक्षया, अन्यथा घटपदस्य देशपरस्याऽऽवृत्त्या प्रकारताद्वयनिरूपितविशेष्यताद्वयशाल्ये व बोधस्स्यात् । न च प्रकारभेदेन सप्तभङ्गीभेदश्शास्त्रसिद्धः प्रकारश्च विधेयधर्म उद्देश्यतावच्छेद
कधर्मो वेत्यत्र न कश्चिद्विशेषः, अत एव शुद्धघटादिधर्मिकसप्तभङ्गयपेक्षया नीलघटादिधर्मिक15 सप्तभङ्गथा अविगानेन भेदस्तथा च प्रकृते धर्मितावच्छेदकस्वावयवस्य धर्मान्तरस्य वा भेदा
त्सप्तभङ्गीभेदप्रसङ्ग एकधर्मावच्छिन्नत्वघटितत्वात्सप्तभङ्गया इति वाच्यम् , तत्तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावात् ,अन्यथा कम्बुग्रीवादिमान स्यादस्तीत्यादितोऽपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति । तादृशे घट इति, प्रकृतेतरसकलधर्मात्मके घट इत्यर्थः । क्रमार्पितेति, क्रमिकशाब्दबोधद्वयेच्छाविषयेत्यर्थः । न च क्रमबलादुभय.
१. तत्र देशो नाम सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवः । विकलादेश इत्यादेशे वस्तुनो वैकल्यञ्च स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणादिरूपं स्वरूपेणोपरञ्जकमपेक्ष्य परिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां समुदायात्मकमात्मरूपमभ्युपगम्याभिधानम् । अनेकधर्मस्वभावमेकं हि वस्तु, दृष्टश्चाभिनस्याप्यात्मनो भिन्नो गुणो भेदकः, यथा परुद्भवान् पटुरासीत् ऐषमस्तु पटुतरोऽन्य एवाभिसंवृत्त इति, अत्र हि पटुत्वातिशयस्सामान्यपाटवाद्गुणादन्यः, स च वस्तुनो भेदं कल्पयति, प्रयोजनार्थिना तथाऽऽश्रितत्वात् , तस्मात्ते गुणास्तस्यारम्भकत्वाद् भागा वस्त्वंशमनुभवन्ति, अनेकानेकस्वरूपत्वादात्मादिवस्तुनः, पुरुषस्येव पाण्यादयः, ते च क्रमेण वृत्ताः, क्रमयोगपद्याभ्याञ्च, तत्र तृतीयेऽस्मिन् भने क्रमेण वृत्ताः, द्रव्यार्थसामान्येन तद्विशेषेण वा पर्यायसामान्येन तद्विशेषेण वा वस्तूच्यते यथा आत्मा चैतन्यसामान्येनास्ति चैतन्यविशेषविवक्षायां वा एकोपयोगत्वादस्ति, पर्यायसामान्यात् अचैतन्येन नास्ति घटोपयोगकाले वा पटोपयोगैन नास्ति, चैतन्येन तद्विशेषेण वर्तमान एवं तदभावेन तद्विशेषाभावेन वा न वर्तत इत्युभयाधीन आत्मेति तृतीयवाक्यतात्पर्यम् । एवञ्च सङ्ग्रहव्यवहाराभिप्रायात् त्रयस्सकलादेशाः चत्वारस्तु ऋजुसूत्रशब्दसमभिरूढेवंभूतनयाभिप्रायादिति तत्त्वार्थभाष्यटीकाकाराः ॥