________________
: 10
ससभङ्गी ] न्यायप्रकाशसमलङ्कृते
: ४२९ : मुख्य विशेष्यताकबोधस्यार्थसिद्धत्वेनाद्यभङ्गद्वयानतिरेक इति वाच्यं क्रमग भयप्राधान्यबोधकत्वाभिप्रायेणोभयपदप्रयोगात् , तत्रैकत्र द्वयमिति विषयताशालिनो धर्मद्वयप्रकारतानिरूपितकविशेष्यतानिरूपकस्य बोधान्तरस्यानुभविकत्वात् , वस्तुत इच्छाविशेषरूपस्य क्रमा. र्पितत्वस्य भङ्गप्रयोजकत्वान्न भङ्गे सत्त्वासत्त्वोभयनिष्ठविषयतावच्छेदकत्वं स्वपरद्रव्यादी. नामेव तत्रावच्छेदकत्वात् तथा च चालनीन्यायेन स्वद्रव्यपरद्रव्यादिचतुष्टयावच्छिन्नं 5 सत्त्वासत्त्वोभयमस्य भङ्गस्य विषय इत्याशयेन स्वपररूपाद्यवच्छिन्नेत्युक्तम् । वाक्यार्थ निगमयति, तथा चेति, तादृशो घट इति प्रकृतेतरसकलधर्मात्मको घट इत्यर्थः, क्रमार्पितत्वस्योभयधर्मावच्छेदकत्वं यथाश्रुताभिप्रायेण, जिज्ञासाया भङ्गीयविषयतानवच्छेदकत्वाभिप्रायेण तु स्वपररूपादीति, शिष्टं पूर्ववद्भाव्यम् ॥
चतुर्थभङ्गवाक्यार्थमाह
स्यादवक्तव्य एव घट इति चतुर्थं वाक्यं युगपत्स्वपररूपादीनामपेक्षणे वस्तु न केनापि शब्देन वाच्यमिति बोधयति, तथा च तादृशो घटः सत्त्वादिरूपेण वक्तव्य एव सन् युगपत्प्रधानभूतसत्त्वासत्त्वोभयरूपेण प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणाभावाप्रतियोग्यवक्तव्यत्ववानिति बोधः॥
15 _ स्यादिति । निरवयवद्रव्यविषयकमिदम् । प्राधान्यतो गुणभावतो वा सत्त्वासत्त्वधर्मयोर्युगपत्प्रतिपादने कस्यापि वचसः सामर्थ्याभावेन घटादिकं वस्तु ताभ्यामवक्तव्यं भवतीत्याशयेनाह युगपदिति । एकदैकपदादुभयबोधो जायतामितीच्छाविषयत्वेनेत्यर्थः । स्वपररूपादीनामित्यनेन स्वरूपाद्यवच्छिन्नसत्त्वपररूपाद्यवच्छिन्नासत्त्वे विवक्षिते, समुदितन्यायेन स्वरूपपररूपादीनां सत्त्वासत्त्वनिष्ठविषयतावच्छेदकतया विवक्षण इति वाऽपेक्षण इति 20 पदान्तस्यार्थः, आदिना द्रव्यक्षेत्रकालानां ग्रहणम् । न केनापि शब्देन वाच्यमिति, कस्यापि पदस्य समस्तपदस्य वाक्यस्य वा तथाविधवाच्यवाचकभावाविषयीभूतत्वादिति भावः, एकं हि पदमेकया शक्त्याऽर्थमेकमेव बोधयति शब्दशक्तिस्वाभाव्यात् सदिति पदस्यासदविषयत्वादसदिति पदस्य सदविषयत्वात् , अन्यथा तदन्यतरप्रयोगसंशयप्रसङ्गात् , नानार्थविषयस्यापि गवादिपदस्य वस्तुतोऽनेकत्वात् सादृश्योपचारादेव हि तस्यैकत्वेन व्यवहारः, 25 इतरथा सर्वस्यैकशब्दवाच्यत्वं स्यात् , प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यमपि प्रसज्येत, तथा च यथा शब्दभेदेनार्थभेदो ध्रुवस्तथाऽर्थभेदादपि शब्दभेदस्सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारो विलीयेत, एवं वाक्यमप्येकं न युगपदनेकार्थविषयं वेदितव्यम् । ननु