________________
सप्तमजी ] न्यायप्रकाशसमलङ्कृते
: ४२७: धर्मात्मकत्वस्य गौणतया च तदितरसकलधर्मात्मकत्वस्य बोधेन द्रव्यार्थिकनयार्पणया घटेऽनुपचरितैकविशेष्यतायाः पर्यायार्थिकनयार्पणयोपचरितैकविशेष्यताया वा भानेन एव कारार्थाभावाप्रतियोगित्वघटकाभावे विशेष्यतावच्छेदकसामानाधिकरण्यस्य विशेष्यवाचकपदसमभिव्याहारेण लाभाच्च प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्वनिष्ठस्वेतरसकलधर्मात्मकत्वसम्बन्धावच्छिन्नप्रकारतानिरूमिता- 5 भेदप्राधान्याभेदोपचारप्रयुक्तकविशेष्यताको घट इति बोधः फलित इति भावः । घटत्वसमानाधिकरणेऽभावे प्रतियोगिवैयधिकरण्यञ्चास्तित्वाभावरूपस्य नास्तित्वस्य घटे सत्त्वेनास्तित्वेऽप्रतियोगित्वरक्षायै । तथा चास्तित्वाभावो न प्रतियोग्यसमानाधिकरणस्तत्रास्तित्वस्यापि सत्त्वादिति | अयश्च बोधः केवलं घटस्यैव विशेष्यत्वमङ्गीकृत्योक्तः, यदि स्यात्पदार्थोऽपि विशेष्यकोटौ प्रवेश्यते तदा प्रकृतेतरसकलधर्मात्मको घटो घटत्वसमानाधिकरण- 10 प्रतियोगिव्यधिकरणाभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्वनिष्ठकथञ्चित्तादात्म्यसम्बन्धावच्छिन्नप्रकारतानिरूपितैकविशेष्यतावानिति बोधो भाव्य इति । अत्र च प्रधानभावेनास्तित्वधर्मात्मकत्वं गुणभावेन च तदितरसकलधर्मात्मकत्वं बोध्यते ततो गुणप्रधानभावापन्नं वाक्यं जातं तथा सति प्रधानभावेनाशेषधर्मात्मकवस्तुबोधकस्सकलादेश इति नियमो व्याहत इत्युच्यते तर्हि एतद्वाक्यबोधानन्तरमनन्तधर्मात्मकं सर्वमित्यौपादानिकबोधोऽङ्गी- 15 कार्यः । अत एवास्य सकलादेशरूपत्वमिति ॥
अथ सत्त्वोपसर्जनासत्त्वप्रधानप्रतिपादकवाक्यार्थ विवेचयति
घटस्यान्नास्त्येवेति द्वितीयं वाक्यमन्यधर्माप्रतिषेधमुखेन निषेधविषयकं बोधं जनयति, अत्रापि तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याद्यवच्छिन्ननास्तित्व- 20 वानिति बोधः ॥
घट इति । अन्यधर्माप्रतिषेधमुखेनेति, धर्मान्तरप्रतिषेधे हि दुर्नयत्वं स्यात्तथा च धर्मान्तरप्रतिषेधाकरणात्स्यात्पदमहिम्नाऽनन्तधर्मविषयो गृहीतधर्मप्रतिपादको यो बोधविशेषस्तं जनयतीति भावः । पूर्ववदेवात्रापि शाब्दबोधो विज्ञेय इत्याशयेनाहानापीति, स्पष्टमन्यत् ॥
तृतीयवाक्यार्थमाह
स्यादस्ति नास्ति च घट इति तृतीयं वाक्यं तादृशे घटे क्रमाप्तिस्वपररूपाद्यवच्छिन्नास्तित्वनास्तित्वावच्छिन्नत्वं बोधयति, तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिक
25