________________
तस्वन्यायविभाकरे
[ षष्ठकिरणे भावस्तस्य यो व्यवच्छेदस्सोऽयोगव्यवच्छेदः उद्देश्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वमिति यावत् , शंखः पाण्डुर एवेत्यत्रोद्देश्यश्शंखो विधेयं पाण्डुरत्वं तथा चोदेश्यतावच्छेदकं यच्छंखत्वं तद्वति वृत्तिोऽभावो घटाद्यभाव एव न पाण्डुरत्वाभावस्तत्र पाण्डुरत्वस्य सत्त्वात् तथा च तदप्रतियोगित्वं पाण्डुरत्व इति शंखत्वसमानाधिकरणाभावाप्रतियोगि5 पाण्डुरत्ववानयं शंख इत्येवकारमहिम्ना तादृशवाक्याद्वोधो भवति, विशेष्यसङ्गतैवकारे
णान्ययोगव्यवच्छेदस्य बोधो जायते, यथा पार्थ एव धनुर्धर इत्यादौ, अन्यस्मिन् विशेष्यभिन्ने योऽयं योगस्सम्बन्धो विशेषणस्य तस्य व्यवच्छेदः, उद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिकभेदसमानाधिकरणाभावप्रतियोगित्वमिति यावत् पार्थत्वावच्छिन्नप्रतियोगिकभेदः पुरु
षान्तरे तत्र धनुर्धरत्वाभावोऽस्ति, तस्मात्पार्थत्वावच्छिन्नप्रतियोगिकभेदसमानाधिकरणाभा10 वप्रतियोगिधनुर्धरत्ववान पार्थ इति बोधस्ततो जायते । क्रियासङ्गतादेवकाराच्चात्य
न्तायोगव्यवच्छेदस्य बोध उदेति, यथा नीलं सरोजं भवत्येवेत्यादौ, उद्देश्ये विशेषणस्य योऽयमत्यन्तमयोगोऽसम्बन्धस्तस्य व्यवच्छेद इत्यर्थः, उद्देश्यतावच्छेदकव्यापकाभावाप्र. तियोगित्वमिति यावत् । अत्रोद्देश्यं सरोजं तदवच्छेदकं सरोजत्वं तच्च यत्र यत्र तत्र सर्वत्र - नीलवत्त्वाभावो न वर्त्तते, कचिन्नीलस्यापि सत्त्वात् तथा चोदेश्यतावच्छेदकव्यापकोदासी15 नाभावाप्रतियोगित्वस्य नीलवत्त्वे सत्त्वेन सरोजत्वव्यापकाभावाप्रतियोगिनीलरूपवत्सरोज
मिति बोधस्तादृशवाक्याद्भवति । स्यादस्त्येव घट इत्यत्रापि घटत्वसमानाधिकरणाभावाप्रतियोगित्वस्य स्वरूपाद्यवच्छिन्नसत्त्वे सत्त्वेनायोगव्यवच्छेदक एवकारः, न चात्रैवकारस्यास्तीति क्रियासङ्गतत्वेन तस्मादत्यन्तायोगव्यवच्छेदस्यैव बोधो भवेदिति कथमयोगव्यव
च्छेदस्तदर्थः प्रकृत इति वाच्यम् , ज्ञानमर्थं गृह्णात्येवेत्यादौ ज्ञानत्वसमानाधिकरणाभावाप्र20 तियोगित्वस्यार्थग्राहकत्वे धात्वर्थे बोधात्क्रियासङ्गतस्याप्येवकारस्य कचिदयोगव्यवच्छेद
बोधकत्वात्, न च तत्राप्यत्यन्तायोगव्यवच्छेदक एवैवकारो वाच्य इति वाच्यम् , तथा सत्येकस्मिन्नपि ज्ञाने रजतत्वग्राहकत्वसत्त्वेऽत्यन्तायोगव्यवच्छेदसम्भवेन ज्ञानं रजतं गृह्णात्येवेति प्रयोगप्रसङ्गात्, तस्मात्प्रकृते क्रियासङ्गतोऽप्येवकारोऽयोगव्यवच्छेदबोधक
इति न कापि क्षतिः, अस्तीति विभक्तिप्रतिरूपकाव्ययाश्रयणात् सत्त्वबोधेन विशेषणे 25 सत्त्वे एवकारान्वयेनायोगव्यवच्छेदबोधाद्वा न कोऽपि दोषः । तदेवं पदशक्तिग्रहे जाते
वाक्यशक्तरुद्बुद्धतया वाक्यार्थ प्रदर्शयति तथा चेति, वाक्यादस्मात् प्रधानतयाऽस्तित्व
१. ननु क्रियासङ्गत्वकारस्यात्यन्तायोगव्यवच्छेदकत्वे प्रयोगोऽयं भवत्येव, न ह्यत्रायोगव्यवच्छेदो भासते येन सर्वेषां ज्ञानानां रजतं न विषय इति कृत्वोक्तप्रयोगो न भवेत् , किन्तु ज्ञानं कदाचिदपि रजतं न गृहातीत्येवंविधात्यन्तायोगस्यैवात्र व्यवच्छेदत्वेनेष्टत्वादित्यस्वरसादाहास्तीतिविभक्तिप्रतिरूपकाव्ययाश्रयणादिति ॥