________________
सप्तभङ्गी ] न्यायप्रकाशलमलङ्कते
:४२५ त्वनास्तित्वोभयघटितर्मिविशेषणत्वात् , यत्स्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र तेनाविनाभावि, यथान्वयव्यतिरेकव्याप्तिद्वयघटितव्याप्यविशेषणभूताऽन्वयव्याप्तिः व्यतिरेकव्याप्त्यविनाभाविनीति । उक्तप्राया अपि पदार्था वाक्यार्थबोधजननशक्तेर्वाक्यनिष्ठाया उद्बोधकविधया हेतवोऽतः वाक्यार्थनिरूपणप्रस्तावेऽस्मिन् पदार्थानुपस्थापयति कण्ठतोऽत्रेति, अस्मिन् वाक्य इत्यर्थः, अनन्तधर्मवन्तमिति, अनन्तधर्मात्मकमित्यर्थः, सामान्यत इत्युक्तत्वेनानन्त- 5 धर्मान्तर्गततयाऽस्तित्वस्यापि बोधात्तद्वोधकास्तिपदं निरर्थकमित्याशङ्का गता, तस्य तथा सामान्यतो बोधेऽपि प्रातिस्विकरूपेण तद्वोधनाय विशेषपदस्यावश्यकत्वात् , यथा सर्वेषां वृक्षाणां वृक्षत्वेन बोधेऽपि विशेषवृक्षबोधार्थं पनसादिपदप्रयोगः । एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेनेति तदर्थः । कथमनन्तधर्माणामेकशब्देन बोध इत्यत्राहाभेदप्राधान्येनेति, द्रव्यार्थिकनयेनाभेदस्य प्राधान्येनेति भावः । प्राधान्यश्च शब्देन विवक्षितत्वा- 01 च्छब्दाधीनं बोध्यं, अभेदोपचारेण वेति, पर्यायार्थिकनयस्य प्राधान्ये मुख्यतयाऽभेदासम्भवेन तदुपचारादिति भावः, शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधानता बोध्या । स्यादित्यादिपदानां द्योतकत्ववाचकत्वयोरनेकान्तत्वेनानन्तधर्मात्मकस्य द्योतकं वाचकं वेत्यनुक्त्वाऽनन्तधर्मवन्तमाहेत्युक्तं द्योतकतया वाचकतया वा स्याच्छब्दोऽनन्तधर्मात्मकं वस्तु प्रकाशयतीति भावः, एवमग्रेऽपि । अस्तित्वधर्मवन्तमिति, अस्धातोस्सत्त्वपर्यवसन्नमस्तित्वं, आख्यातस्याश्रयत्वमर्थ 15 इति मत्वाऽस्तित्वधर्मवन्तमित्युक्तं, आहेति, द्योतकतयेति शेषः, वाक्यार्थे पदमात्रस्य द्योतकत्वादिति भावः । अस्तित्वश्च स्वद्रव्यक्षेत्रकालभावापेक्षया विवक्षितं, सत्पदमनुक्त्वाऽस्तिपदोपादानं विवक्षितस्वरूपावच्छिन्नसत्त्वाद्यपेक्षायै नैयायिकादिमतसिद्धसामान्यात्मकसत्त्वस्य लोकाप्रतीतस्याविवक्षितत्वसूचनाय च । तथा च स्वद्रव्याद्यवच्छिन्नसत्त्वस्यैव प्रतीतेस्सर्वथा निरवच्छिन्नसत्त्वं अप्रामाणिकमेव, इदमपि सत्त्वमर्पितानर्पितदृष्टया सावच्छिन्नं निरव- 20 च्छिन्नमपीति बोध्यम् । अयोगव्यवच्छेदमिति, अयम्भावः, एवकारस्त्रिविधः, अयोगव्यवच्छेदबोधकोऽन्ययोगव्यवच्छेदबोधकोऽत्यन्तायोगव्यवच्छेदबोधकश्चेति, विशेषणान्वितैवकारोऽयोगव्यवच्छेदबोधकः, यथा शंखः पाण्डुर एवेति, विशेष्ये विशेषणस्य योऽयोगः सम्बन्धा
. १. सामान्यतइत्यस्यार्थ; । २. ननु सर्व वाक्यं सावधारणमिति न्यायेनाप्रयुक्तोऽपि यथैवकारो लभ्यते तथा वस्तुनोऽनेकान्तस्वरूपत्वादेवाप्रयुक्तोऽपि स्याच्छन्दो लभ्यत एवेति व्यर्थस्तत्प्रयोग इति मैवम् , विशिष्टविषयत्वे तात्पर्यास्फोरणेऽवच्छेदकास्फुरणात्सर्वथैकान्तशङ्काया अव्यवच्छेदेनाधिकृताया अनेकान्तप्रतिपत्तेरयोगात् एवमेवशब्दाप्रयोगेऽपि विवक्षितार्थस्य सदाद्ययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिर्बोध्या ।।
५४