________________
: ४२० :
तत्त्वन्यायविभाकरे
[ षष्ठकिरणे
मिति भावः, भेदोपचारेण वेति, प्राधान्येन द्रव्यार्थिकाश्रयतोऽभिन्नेऽपि भेदाध्यारोपेणेत्यर्थः, क्रमश्चास्त्यादिरूपैकशब्दस्य कालादिभिर्भिन्ननास्तित्वाद्यनेकधर्मबोधने शक्त्यभावाद्बोध्यः ॥
अभेदवृत्त्यभेदोपचारप्रयोजकान् दर्शयितुमाह-
अभेदवृत्त्य भेदोपचारौ कालस्वरूपार्थसम्बन्धोपकारगुणिदेश संसर्ग5 शब्दैरष्टाभिग्रह्यौ ॥
एकस्मिन् भङ्गे घटयति —
तथाहि स्यादस्त्येव घट इत्यादावस्तित्वाद्यात्मकैकधर्मबोधजनकत्वं वर्त्तते तथा एककालावच्छिन्नैकाधिकरण निरूपितवृत्तित्वैकगुणिगुणत्वेकाधिकरणवृत्तित्वैकसम्बन्धप्रतियोगित्वैकोपकारकत्वैकदेशावच्छिन्नवृत्तित्वैकसंसर्गप्रतियोगित्वैकशब्दवाच्यत्वधर्मैरस्तित्वेनाभिन्ना अनेके ये धर्मास्तदात्मक पदार्थबोधजनकत्वमपीति ॥
तथाहीति । इत्यादाविति, अस्तित्वाद्यात्म कैकधर्मबोधजनकत्वं वर्त्तत इत्यनेनैकधर्मविषयकबोधजनकत्वमिति सकलादेशलक्षणांशस्सङ्घटितः, वाक्य इति शेषः, इत्यादावित्यस्येत्यादिवाक्य इति वाऽर्थः । कालादिभिर्धर्माणामभेदवृत्तिं घटयति तथेति, एककालाच्छिन्नैका - धिकरणनिरूपितवृत्तित्वेति, यादृशकालावच्छेदेन यत्र घटादावस्तित्वं वर्तते तत्कालावच्छेदेन तत्रानन्ता अपि धर्मावर्तन्त इत्यस्तित्वेन सह शेषधर्माणामेककालावच्छिन्नैकाधिकरणवृत्तित्वं 20 वर्त्तत इति कृत्वा तेषां कालेनाभेद इति भावः । एकगुणिगुणत्वेति, अस्तित्वं हि घटस्य गुणस्तस्मादस्तित्वस्य घटगुणत्वं स्वरूपं तथा तद्वृत्तिशेषधर्माणामपीति सर्वेषां धर्माणामेकगुणगुणत्वस्वरूपतया स्वरूपेणाभेदवृत्तिरिति भावः । एकाधिकरणवृत्तित्वेति, यथा ह्यस्तित्वस्याधिकरणं घटस्तथैव निखिलधर्माणामपीत्येकाधिकरणवृत्तित्वादेषामर्थेनाभेदवृत्तिरिति भावः । एकसम्बन्धप्रतियोगित्वेति, यो ह्यस्तित्वस्य घटेन कथञ्चित्तादात्म्यरूप25 सम्बन्ध स एव शेषाणामपीति सर्वे धर्माः कथञ्चित्तादात्म्यलक्षणसम्बन्धस्य प्रतियोगि
10
अभेदेति । समानकालीनत्वं, एकगुणिगुणत्वं, एकाधिकरणत्वं, एकसम्बन्धप्रतियोगित्वं, एकोपकारकत्वं, एकदेशावच्छिन्नवृत्तित्वं, एकसंसर्गप्रतियोगित्वं, एकशब्दवाच्यत्वश्वाभेदवृत्तावभेदोपचारे वा प्रयोजकमिति भावः ॥
15
4.
१. तादात्म्यातिरिक्तसम्बन्धासिद्धेरिति भावः, यद्यपि कार्यकारणभावदेशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहार कारित्वं दृश्यते तथापि तत्रापि तत्तद्व्यवहारप्रयोजकशक्तत्यात्मना कथचित्तादात्म्याभ्युपगमाददोषः, तथा च यत्राभेदव्यवहारस्तत्राभेद उद्भूतोऽनुद्भूतो भेदः, पृथक्सम्बन्धिस्थले तु वैपरीत्येनेति बोध्यम् ॥