________________
सप्तभङ्गी ] न्यायप्रकाशसमलते
:४२१: नस्तस्मादेकसम्बन्धप्रतियोगित्वादेषां सम्बन्धेनाभेदवृत्तिरिति भावः। एकोपकारकत्वेति, अस्तित्वस्य योऽयमुपकारः स्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वं स एवोपपकारस्स्वान्याखिलधर्माणामिति सर्वेषामेकोपकारकत्वेनोपकारेणाभेदवृत्तिः । एकदेशावच्छिन्नवृत्तित्वेति, अस्तित्वं हि यद्देशावच्छेदेनास्ति तद्देशावच्छेदेनैव स्वेतरेऽखिलधर्मास्सन्तीत्येकदेशावच्छिन्नवर्तिन एते, न ह्यस्तित्वं कण्ठावच्छेदेन पृष्ठदेशावच्छेदेन नास्तित्वमिति देश- 5 भेदो वर्तत इति गुणिदेशेनैतेषामभेदवृत्तिरिति भावः । एकसंसर्गप्रतियोगित्वेति, य एव हि घटे नास्तित्वस्यैकवस्त्वात्मना संसर्गस्स एवान्येषामपीति तेषामेकसंसर्गप्रतियोगित्वासंसर्गेणाभेदवृत्तिः, एकशब्दवाच्यत्वधमैरिति, अस्तित्वधर्मात्मकस्य य एवास्तिशब्दो वाचकस्स एव तद्भिन्नानन्तधर्मात्मकस्यापि वस्तुनो वाचक इति एकशब्दवाच्यत्वाच्छब्देनाभेदवृत्तिरिति भावः । धर्मान्तं पदमस्तिनाऽभिन्नत्वे प्रयोजकप्रदर्शनपरम् । जनकत्वमपी- 10 तीति सकलादेशलक्षणसमन्वय इति शेषः । अत्र मलयगिरिचरणास्सप्तभङ्गयां प्रतिभङ्गं प्रमाणवाक्यमेव, नतु नयः, स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचारेण वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छब्दलाञ्छिततयैत्र सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा तस्या नयरूपत्वात् , नयानां च सर्वेषां मिथ्यादृष्टित्वात् तथा चानुस्मरन्ति “ सव्वे णया मिच्छा- 15 वायिणो” त्ति, न च सप्तभङ्गात्मकं प्रमाणवाक्यं एकभङ्गात्मकञ्च नयवाक्यमित्यपि नियन्तुं शक्यम् , सप्तभङ्गानां सप्तविधजिज्ञासोपाधिनिमित्तत्वेनासार्वत्रिकत्वात् को जीव इति प्रश्ने लक्षणमात्रजिज्ञासया स्याज्ज्ञानादिलक्षणो जीव इत्येकवाक्यस्य प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात् स्याच्छब्दस्य चात्रानन्तधर्मात्मकत्वद्योतनेन प्रमाणाङ्गत्वादिति वदन्ति तन्मतेनात्र प्रत्येकवाक्यस्य प्रमाणरूपत्वं दर्शितम् , एतन्मते नयदुनयविभागो नास्ति अर्था- 20 विशेषात् । केचित्तु 'सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणै' रिति हेमसूरिभिरपि प्रमाणनयदुर्नयरूपेण विभज्याभिधानात् आकरे नयतदाभासानामपि स्पष्टं बोधितत्वाचास्ति नयदुर्नयभेदः, अवधारणीभाषैकान्तवादात्मिकैव निषिद्धा न तु नयरूपापि, तस्याः प्रमाणपरिकरत्वात् प्रमाणात्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वेन तदनुकूलाकांक्षोत्थापकत्वेन वा नयवाक्यस्य शिष्यमतिविस्फारकत्वाच्च, अत 25 एव नयोऽप्यादरणीय एव । प्रमाणवाक्यमपि हि अनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तस्मात् स्याज्ज्ञानादिलक्षणो जीव इत्यपि सुनयवाक्यमेव, एकभङ्गरूपत्वात् । तत्रापि प्रमाणवाक्यत्वमुत्थाप्याकांक्षाक्रमेण भङ्गषटूसंयोजनयैव । सकलादेशत्वञ्च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमेवेत्याहुः । अपरे तु