________________
बाप्तमझी ] न्यायप्रकाशसमलते
: ४१९ : तत्तद्धर्माभिन्नानेकयावद्धर्मात्मकपदार्थबोधजनकत्वस्य प्रत्येकं प्रमाणनयसप्तभङ्गीवाक्येषु सत्त्वेन न नयवाक्येष्वतिव्याप्तिः, स्यात्पदं हि प्रकृतेतरयावद्धर्मात्मकत्वं द्योतयति गुणभावेन, तथा च सर्वमेव वाक्यं गुणभावेन प्रकृतेतरयावद्धर्मात्मकपदार्थबोधजनकं, प्रधानतया चोपस्थितधर्मबोधजनकञ्चेति । अतो योगपद्मनाभेदवृत्त्याऽभेदोपचारेण वेत्युक्तम् , एवञ्च प्रमाणवाक्यानां सर्वैः पदैर्मिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम् , स्याद- 5 स्त्येव घट इति वाक्यात् स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववानेव घट इति प्राथमिकबोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्वमित्यौपादानिकबोधस्सकलादेशजन्यः स्वीक्रियते, स च द्रव्यार्थिकार्पणयाऽनुपचरितैकविशेष्यताकः, पर्यायार्थिकार्पणया चोपचरितकविशेष्यताक इति तात्पर्यार्थमादाय न प्रधानैकार्थत्वव्याघातः, सकलादेशान्यार्थ एव गुणप्रधानभावेन बोधकत्वनियमस्य चरितार्थत्वात्। अत एव सकलादेशेऽनन्तत्वान्यधर्मानवच्छिन्नानन्तधर्मप्रका- 10 रतानिरूपितसकलवस्तुविषयताशालिज्ञानत्वेन केवलज्ञानतुल्यत्वोक्तिः सङ्गच्छत इति भावः । तथा चैकधर्मात्मकवस्तुविषयकबोधस्याभेदवृत्तेरभेदोपचारस्य वाऽनाश्रयणे विकलादेशत्वापत्त्या कालादिमिरष्टाभिर्धर्मधर्मिणोस्तद्भिन्नधर्माणाश्चाभेदस्य प्राधान्यतः कालादिभिभिन्नानां वा धर्माणामभेदस्यारोपात्समकालं तादशाशेषधर्मात्मकर्मिबोधकं वाक्यं सकलादेश इति तात्पयोथैः । अस्तित्वनास्तित्वादिधर्माणां कालादिभिरभेदेन वृत्तमात्मरूपं यदोच्यते तदैकेनाप्यस्त्या- 15 दिपदेनास्तित्वादिरूपैकधर्मबोधनद्वारा तदात्मकतामापन्नस्य निखिलधर्मस्वरूपस्य प्रतिपादनं सम्भवतीति सूचयितुमेकधर्मबोधजनकं सद्योगपद्येन तदात्मकयावद्धर्मात्मकपदार्थबोधजनकवाक्यत्वमित्यनुक्त्वा तथोपन्यासः कृतः, एतेन धर्माविषयकर्मिबोधकवाक्यत्वं सकलादेशत्वं प्रत्युक्तं, तादृशबोधाप्रसिद्धेः, येन केनापि धर्मेण विशेषितस्यैव धर्मिणशाब्दबोधविषयत्वात् । अभेदवृत्तिश्च द्रव्यार्थिकनयाश्रयणेन, द्रव्यत्वाव्यतिरेकात् । अभेदोपचारश्च पर्या- 20 यार्थिकनयाश्रयणेन परस्परभिन्नानामप्येकत्वाध्यारोपादिति ॥
अथ विकलादेशस्वरूपमाह
क्रमेण भेदप्राधान्येन भेदोपचारेण वा एकधर्मात्मकपदार्थविषयकबोधजनकवाक्यं विकलादेशः॥
क्रमेणेति । भेदप्राधान्येनेति, पर्यायार्थिकनयस्य प्राधान्येन परस्परं भिन्नत्वाद्धर्माणा- 25
१. ननु स्याच्छब्दस्य द्योतकत्वं तदा युज्यते यदाऽनेकान्तः केनापि शब्देन वाच्यस्स्यात्तदेवेह नास्तीतिकथं द्योतकत्वमिति चेन्न, अस्त्येव घट इत्यादिवाक्येन तत्प्रतिपादनात् सकलादेशस्वरूपं हीदं वाक्यं कालादिभिरभेदवृत्त्याऽभेदोपचारेण वा तद्बोधनसमर्थमिति ॥