________________
:४१८ तस्वन्यायविभाकरे
[ षष्ठकिरण विशिष्टावक्तव्यत्वस्य षष्ठेऽसत्त्वविशिष्टावक्तव्यत्वस्य सप्तमे तु क्रमार्पितसत्त्वासत्त्वविशिष्टावक्तव्यत्वस्य । असत्त्वादीनान्तु गुणभावेन प्रतीतिः॥
तत्रेति । सप्तभङ्गीवाक्य इत्यर्थः, प्रथमे भङ्ग इति, स्यादस्त्येव घट इति भङ्ग इत्यर्थः, प्रधानतया भानमिति नेतरधर्मभाननिरसनपरमिति भावः । भानमित्यप्रेतनवाक्येष्वपि सम्ब5 यते । कथं तयसत्त्वादीनां प्रतीतिरित्यत्राहासत्त्वादीनान्त्विति ॥
प्रथमद्वितीयधर्मापेक्षया तृतीयचतुर्थधर्मयोरतिरिक्तत्वं समर्थयतिक्रमाप्तिसत्त्वासत्त्वरूपो धर्मः कथञ्चित्सत्त्वाद्यपेक्षया भिन्नः, प्रत्येक घकारादिवर्णापेक्षया घटपदवत् । अवक्तव्यत्वञ्च सहार्पितास्तित्वनास्ति
त्वयोस्सवेथा वक्तुमशक्यत्वम् ॥ 10. क्रमार्पितेति, सत्वासत्त्वोभयत्वस्य भिन्नत्वेन तदाश्रयसत्त्वासत्त्वोभयस्यापि कथञ्चि
द्भेदस्यावश्यकत्वादिति भावः । तत्र दृष्टान्तमाह प्रत्येकेति । अन्यथा धकारागुच्चारणेनैव घटपदज्ञानसम्भवाद्धटपदार्थोपस्थितौ शेषवैयापत्तेः, अत एव हि प्रत्येककुसुमापेक्षया मालायाः कथञ्चिद्भेदस्सर्वानुभवसिद्ध इति भावः । चतुर्थधर्मस्य भेदमाहावक्तव्यत्वश्चेति, तथा च सत्त्वासत्त्वतदुभयापेक्षया सहार्पितावक्तव्यत्वधर्मो भिन्न इति भावः, नात्र सहार्पि15 तसत्त्वासत्त्वमस्य भङ्गस्य विषय इति सूचनाय षष्ठयन्तत्वेनोपन्यासः कृतः । प्रथमद्विती
यतृतीयचतुर्थभेदानां विलक्षणधर्मवत्त्वं पञ्चमषष्ठसप्तमानां प्रोक्तधर्मयोजनात्मकत्वमित्यतस्तेषां पार्थक्यं न दर्शितम् , प्रथमद्वितीययोस्तु पृथक्त्वं सुस्पष्टमेवेति तदपि नोक्तमिति ॥ तदेवं सामान्यतस्सप्तभङ्गीस्वरूपं प्रदर्य विशेषबुबोधयिषया तां विभजते
इयं सप्तभङ्गी सकलादेशविकलादेशाभ्यां द्विधा । तत्रैकधर्मविषयक20 बोधजनकं सद्योगपद्मनाभेदवृत्त्याऽभेदोपचारेण वा तत्तद्धर्माभिन्नानेकयावद्धर्मात्मकपदार्थबोधजनकवाक्यं सकलादेशः॥
इयमिति, प्रोक्तस्वरूपेत्यर्थः । एकैको भङ्गः सकलादेशस्वभावो विकलादेशस्वभावश्चेत्यर्थः, एतत्तत्त्वमग्रे वक्ष्यते, सकलादेशं लक्षयति तत्रेति, एकधर्मविषयकबोधजनकत्वे सति
१. सकलजनसाक्षिकं हि स्वरूपादिचतुष्टयापेक्षया सत्त्वस्य पररूपादिचतुष्टयापेक्षया चासत्त्वस्य दर्शन तद्विपरीतप्रकारेण चादर्शनं वस्तुनः इति तत्प्रमाणयता तथैव वस्तु प्रतिपत्तव्यमन्यथा प्रमाणप्रमेयव्यवस्थानुपपत्तेः, एवञ्च प्रमाणं प्रत्यक्षमन्यद्वा स्वार्थीपलम्भात्मना परार्थानुपलम्भात्मना च क्रमाप्तेिन सदसदात्मकमिति भावः ॥