________________
सप्तभी ]
न्यायप्रकाशसमलङ्कते पदप्रयोगेणैकत्र द्वयमिति - रीत्या विलक्षणविषयताशालिबोधान्तरस्यानुभवसिद्धत्वात् । न च क्रमो हि शब्दव्यापारः, अर्थस्तु विशिष्टः क्रमाघटित एवेति तत्र क्रमादिकमनतिप्रयोजनमिति वाच्यम् , शब्दगतस्यापि क्रमस्यार्थेऽध्यारोपेण तत्सम्भवादिति । एवं सहावक्तव्यत्वादिष्वपि चिन्तनीयम् । कथञ्चिदवक्तव्यत्वमिति, युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वमित्यर्थः, सहार्पितावक्तव्यत्वमिति यावत् । ननु सहार्पितत्वं एकदैकपदादुभयबोधो 5 जायतामितीच्छाविषयत्वं सा चेच्छा बाधिते नोदेतीति न तदवक्तव्यस्यावच्छेदकम् ‘न चोभयपदेन युगपदुभयप्राधान्येन बोधसम्भवादवक्तव्यत्वमेवासिद्धं दृष्टं हि पुष्पदन्तपदाचन्द्रत्वसूर्यत्वाभ्यां चन्द्रसूर्ययोर्युगपदेव बोध इति वाच्यम् , पुष्पदन्तपदवदुभयपदस्यासाधारणत्वाभावात् , बुद्धिविषयतावच्छेदकत्वेनास्तित्वनास्तित्वधर्मद्वयावच्छिन्नस्य बोधकत्वेऽपि प्राधान्येन सहार्पितोभयाकारबोधासिद्धेरिति चेन्न, पुत्रनाशे सत्यपि पुत्रदिदृक्षाया आनु- 10 भविकत्वेन क्वचिद्बाधितेऽपीच्छोदयतोऽवक्तव्यस्यावच्छेदकत्वे बाधाभावात् । अथ पञ्चमं धर्ममाह कथञ्चित्सत्त्वेति । अथ षष्ठं धर्ममाह कथश्चिदसत्त्वेति । सप्तममाह क्रमार्पितेति ।। ___ ननु प्रथमद्वितीयधर्मवत्प्रथमतृतीययुक्तधर्मान्तरस्य सिद्धेः कथं सप्तविधधर्मनियम इति चेन्न क्रमाक्रमाप्तियोः प्रथमतृतीयधर्मयोधर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात् विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात् , एवमेव द्वितीयतृतीयधर्मयोः क्रमाक्रमार्पितयोन धर्मान्तरत्वेन 15 प्रतीतिरसत्त्वद्वयस्यासम्भवात् पररूपादिनाऽसत्त्वस्यैकत्वात् । ननु तथा सति प्रथमचतुर्थयोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोश्च सहितयोः कथं धर्मान्तरत्वं, चतुर्थे सहार्पितसत्त्वासत्त्वभानादिति चेन्न चतुर्थे तयोरपरामर्शात् किन्तु तथार्पितयोस्तयोसर्वथा वक्तु. मशक्तेरवक्तव्यत्वरूपधर्मान्तरस्यैव तेन प्रतिपादनात् , न च तेन सहितस्य सत्त्वस्यासत्वस्योभयस्य वाऽप्रतीतिधर्मान्तरत्वासिद्धिति भङ्गानां विषयनियममाह-
20 तत्र प्रथमे भङ्गे सत्त्वस्य प्रधानतया भानं, द्वितीयेऽसत्त्वस्थ प्राधान्येन, तृतीये क्रमाप्तिसत्त्वासत्त्वयोश्चतुर्थेऽवक्तव्यत्वस्य पञ्चमे सत्त्व
१. पुष्पदन्तपदस्य चन्द्रत्वेन चन्द्र सूर्यत्वेन सूर्ये व्यासज्यवृत्तिरेका शक्तिरिति तेनोभयधर्मनिष्ठप्रकार ताद्वयनिरूपितो बोधो भवेत् परन्तुभयपदस्य बुद्धिविषयतावच्छेदकत्वेन यत्किञ्चिद्धर्मद्वये शक्तिसंभवेऽपि प्रातिस्विकधर्मावच्छिन्नप्रकारताद्वयनिरूपितमुख्य विशेष्यताशालिबोधस्तस्मान्न भवेदेवेति भावः । २. मार्पितास्तित्वनास्तित्वोभयस्मिन्नस्तित्वरूपधर्मान्तरस्येति भावः ॥ ३. क्रमाप्तिास्तित्वनास्तित्वोभयस्मिन्नास्तित्वरूपधर्मान्तरस्येति भावः ।। ४. सहार्पितसत्त्वासत्त्वोभयावच्छेदेन तृतीयभङ्गजन्यशाब्दबोधविषयत्वाभावस्यैव स्यादवक्तव्यपदार्थत्वादिति भावः ।।