________________
:४१६ : तत्त्वन्यायविभाकरे
[ षष्ठकिरणे. दवक्तव्यत्वं, कथञ्चित्सत्त्वविशिष्टावक्तव्यत्वं, कथश्चिदसत्त्वविशिष्टावक्तव्यत्वं, क्रमार्पितोभयविशिष्टावक्तव्यत्वञ्च ।
ते चेति । संशयविषयीभूताश्चेत्यर्थः । कथञ्चित् सत्त्वमिति, वस्तुधर्मोऽयं, तदनभ्युपगमे बस्तुनो वस्तुत्वमेव न स्यात् खरविषाणादिवत् , स्वद्रव्यक्षेत्रकालभावापेक्षया सर्व वस्तु 5. सदेव; परद्रव्यादेरिव स्वद्रव्यादेरपि वस्तुनोऽसत्त्वे शून्यताप्रसङ्गः स्यात् , सर्व सदेवेत्यपि
न, सर्वपदार्थानां परस्परमसांकर्यप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, अत एव कथश्चिदसत्त्वमपि वस्तुधर्म इत्याह कथञ्चिदसत्त्वमिति, स्वरूपादिव पररूपादपि वस्तुनस्सत्वे प्रतिनियतस्त्ररूपाभावाद् वस्तुप्रतिनियमविरोधो दुर्वार इति भावः । क्रमार्पितोभयमिति, क्रमार्पितसदसदु
भयत्वमित्यर्थः, तदभावे हि क्रमेण सदसत्त्वविकल्पशब्दव्यवहारस्य विरोधः स्यादिति भावः। 10 न चायं व्यवहारो निर्विषयः क्रमार्पितोभयज्ञानतव्यवहारतत्प्राप्तीनामविसंवादात् तथाविध
रूपादिव्यवहारवत् , तस्यापि निर्विषयत्वे सकलप्रत्यक्षादिव्यवहारोच्छेदान्न कस्यचिदिष्टतत्त्व. व्यवस्था स्यात् , एवमग्रेऽपि भाव्यम् । ननु स्यादस्ति नास्ति च घट इति वाक्यादस्तिनास्ति पदाभ्यां सदसत्त्वयोश्चकारेणोभयस्य चोपस्थित्या सदसदुभयत्वं तादृशव्यवहारस्य विषयः, तच्च
केवलसत्त्वासत्त्वाभ्यां भिन्नं भवतु उभयत्वस्यैकविशिष्टापरत्वरूपत्वाभावात् अविशिष्ट. 15 योरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात् तत उभयत्वं भिन्नं, सद्भदे च कथश्चिदुभयभेदोऽप्य
र्थसिद्ध एव । परन्त्वेतद्वाक्यस्य क्रमादुभयमुख्यविशेष्यताकबोधजनकत्वेन क्रमार्पितत्वं कथमत्र धर्मेऽन्वेति, क्रमिकशाब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदानुपस्थितत्वेन वस्तुधर्मतया तद्वोधासम्भवादिति चेन्न, स्यात्पदेन क्रमार्पितत्वस्य द्योतनात् अनुभूयते
हि स्यादस्ति स्यान्नास्ति च घट इति वाक्याक्रमाप्तिसत्त्वासत्त्वोभयधर्मवन्तममुं घटं 20 जानामीति, तत्र चैकत्वेन गृहीते सदसत्त्वे उभयत्वप्रत्ययस्य भाक्तोभयावगाहित्वेन
तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात् न च क्रमबलादेवात्र ज्ञानद्वयस्य सिद्धयाऽस्य प्रथमभङ्गद्वयाभेदः स्यादिति वाच्यम् , क्रमगर्भोभयप्राधान्यबोधकत्वाभिप्रायेणास्तिनास्ति
१. सदसदुभयत्वं न सत्त्वविशिष्टासत्त्वत्वरूपं, अत्र हि वैशिष्टयं सामानाधिकरण्येन वाच्यं तथा च गोत्वाश्वत्वयोः परस्परं सामानाधिकरण्याभावेन वैशिष्टयविरहेऽपि गोत्वाश्वत्वोभयमित्युभयत्वावगाहिप्रतीत्युत्पत्तेस्तथा चोभयत्वं वैशिष्ट्य द्भिन्नमिति स्वीकार्य, तस्य भेदादेव च सत्त्वासत्त्वाभ्यां सत्त्वासत्त्वोभयमपि कथञ्चिद्भिनमिति भावः ॥ २. क्रमेण सत्त्वासत्त्वोभयविषयकशाब्दबोधद्वय जायतामितीच्छाविषयं बोधद्वयं तद्विषयं सत्त्वासत्त्वोभयमित्यर्थः । पदानुपस्थितत्वेनेति, शब्दोपस्थितस्यैव शाब्दबोधे भाननियमादिति भावः ॥ ३. तृतीयभङ्गो हि क्रमेण शाब्दबोधो जायतामितीच्छाप्रयुक्तस्तथा च सत्त्वप्रकारकघटविशेष्यक मसत्त्वप्रकारकघटविशेष्यकं बोधद्वयमेव जायत इति भङ्गाद्वयसंयोगरूप एवायं भङ्गः प्रसक्त इति शङ्काशयः, समाधानच प्रकारताद्वयनिरूपितकविशेष्यताशालिबोधस्याऽप्यनुभवसिद्धत्वेन तादृशो बोधोऽस्य भङ्गस्य फलमिति ॥