________________
न्यायप्रकार
सप्तभङ्गी ] न्यायप्रकाशसमलङ्कृते
:४१५: क्यत्वेनावश्यकत्वं तद्वोधकतया तृतीयवाक्यस्येति भावः । प्राधान्येन क्रमार्पितविधिनिषेधबोधकमिदम् । नन्वस्तु तर्हि वाक्यत्रयमेव प्रोक्तधर्मत्रयातिरिक्तस्य कस्याप्यभावादित्यत्राह स्यादवक्तव्य एवेति । क्रमेणार्पितयोस्तयोर्यथा वक्तव्यता तथा सहार्पितयोः कथं वक्तव्यत्वमिति स्वाभाविके पर्यनुयोगे विलसिते तथा सर्वथा वक्तमशक्तेरवक्तव्यत्वरूपधर्मान्तरप्रतिपादकस्य वाक्यस्यास्त्यावश्यकतेति भावः । तथा चावक्तव्यत्वबोधकमिदं वाक्यम् । तथापि वाक्यच- 5 तुष्टयमेव स्यादित्यत्राह स्यादस्ति चावक्तव्यश्चेति । तथा च सदवक्तव्यत्वधर्मान्तरस्यापि सम्भवेनेदमपि वाक्यं नियतमेवेति भावः, सत्त्वविशिष्टावक्तव्यत्वबोधकवाक्यमिदम् । एवमसदवक्तव्यत्वस्यापि धर्मान्तरस्य सिद्ध्या तत्प्रतिपादकं वाक्यमप्याह स्यान्नास्ति चावक्तव्यश्चेति, नास्तित्वविशिष्टावक्तव्यत्वबोधकवाक्यमिदम् । एवं सदसदवक्तव्यत्वधर्मस्यापि प्रतीयमानत्वेन तद्बोधकं वाक्यमाह स्यादस्ति नास्ति चावक्तव्यश्चेतीति । सत्चासत्त्वविशिष्टावक्तव्य- 10 त्वबोधकवाक्यमिदम् । इतिशब्दो वाक्यान्तराभावसूचकस्तादृशविलक्षणधर्मान्तराभावात् । न चावक्तव्यत्वस्य धर्मान्तरत्ववत् वक्तव्यत्वस्यापि धर्मान्तरत्व सम्भवेन तद्वोधकस्याष्टमवाक्यस्य सत्त्वात्कथं सप्तैव वाक्यानीति वाच्यम् । सत्त्वादिभिरभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धः।।
नन्वेकत्र धर्मिणि विधीयमाननिषिध्यमानानन्तधर्मसद्भावेनानन्तभङ्गी स्यात् , मैवम , अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्सत्त्वासत्त्वादिधर्मकल्पनयेव नित्यत्वानित्यत्वादिकल्प- 15 नयापि सप्तानामेव भङ्गानामवतारात् तावतामेव प्रतिपाद्यप्रश्नानां सम्भवात् प्रश्नवशादेव सप्तभङ्गीति नियमादित्याशयेनाह
सप्तविधप्रष्टप्रश्नवशात्सप्तवाक्यप्रवृत्तिः, प्रश्नानां सप्तविधत्वं तजिज्ञासायास्सप्तधात्वात्, सप्तधात्वं जिज्ञासायाः सप्तधा संशयोदयात्, संशयानां सप्तधात्वन्तु तद्विषयधमोणां सप्तधात्वाद्विज्ञेयम् ॥
सप्तविधेति । यावन्तः प्रश्नास्तदुत्तरत्वेन तावतामेव वाक्यानां प्रवृत्तिरिति भावः । कुतः प्रश्नस्सप्तविध एवेत्यत्राह प्रश्नानामिति जिज्ञासानुगुणमेव प्रश्नप्रवृत्तरिति भावः, जिज्ञासायास्सतविधत्वं कुत इत्यत्राह सप्तधात्वमिति, संशयानन्तरं हि तद्विधूननाय जिज्ञासा समुदेति संशयानाञ्च सप्तविधत्वे जिज्ञासापि तावत्येवेति भावः । सोऽपि सप्तप्रकार एवेत्यत्रं किं नियामकमिति प्रश्ने त्वाह संशयानामिति, विषयनिबन्धनो हि संशयः, विषयस्य सप्तत्वे कथं संशया 25 अधिका भवेयुः, तथा च विषयाणां सप्तधात्वेन प्रमाणसिद्धत्वात्तावन्त एव संशया इति भावः॥ धर्माः क इत्यत्राहते च धर्माः कथश्चित्सत्व, कथश्चिदसत्त्वं, क्रमार्पितोभयम् , कथश्चि
20