________________
: ४१४ :
तत्त्वन्यायविभाकरे
[ षष्ठकिरणे
वाक्यानि च स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादस्ति नास्ति च घटः स्यादवक्तव्य एव स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्चेति ॥
वाक्यानि चेति । घटे सत्त्वासत्त्वादिरूपधर्मापेक्षया सप्तविधानीमानि वाक्यानि 1 5 विज्ञेयानि, सामान्यविशेषाभ्यामपि तथैव भवन्ति, सामान्यस्य विधिरूपत्वात् व्यावृत्तिरूपतया विशेषस्य निषेधात्मकत्वात् । एवं प्रतिपर्यायापेक्षया सप्तविधत्वं वाक्यानां भाव्यम् । स्यादस्त्येवेति, स्यादिति पदमनेकान्तद्योतकं कथञ्चित्पर्याय मव्ययम् । पदमात्रस्यैव वाक्यार्थे द्योतकत्वं वाक्यस्यैव वाचकत्वमिति सिद्धान्तात् । न च वाक्यस्यैव वाचकत्वे तत्र पदशक्तिग्रहस्यानुपयोगित्वं स्यादिति वाच्यम् । वाक्यशक्तिग्रह एव तस्योपयोगात्तथैवान्वयव्यतिरे10 कतः । अस्तिशब्दोऽत्रास्तित्वधर्मस्य मुख्यतया प्रतिपादकः, एवशब्दोऽवधारकः, घटस्य स्वरूपादिभिरस्तित्वमिव तैरेव नास्तित्वमपि स्यादित्यनिष्टार्थनिवृत्त्यर्थं तद्ब्रहणस्यावश्यकत्वादत एव घटस्सन्नेवेत्यतः निखिलधर्मावच्छिन्न सत्त्वप्रतीतौ तदपवादाय नियतावच्छेदकस्फोरणार्थं स्यात्पदम् । यदि तु व्युत्पन्नस्य घटस्सन्निति निरवधारणप्रयोगेऽपि स्वद्रव्यादिचतुष्टयावच्छिन्नस्वरूपसत्त्वप्रकारकबोधो भवतीत्युच्यते तदा तदपेक्षयाऽप्रयोगोऽपीत्यत्राप्यनेकान्त 15 एव । न चानेकान्तस्य वाचकेन द्योतकेन वा स्याच्छब्देनं सत्त्वासत्त्वाद्यनेकधर्मवद्वस्तुनः प्रतिपादनात्सदादिवचनमनर्थकमिति वाच्यम् । एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेन स्यात्पदस्य सत्त्वासत्त्वादिधर्मसप्तकघटित सप्तभङ्गीबोधकत्वेऽपि प्रातिस्विकरूपेणतत्तद्धर्मबोधनार्थं तत्प्रयोगस्यावश्यकत्वादिति । धर्मान्तराप्रतिषेधकं प्राधान्येन विधिबोधकं वाक्यमिदं तेन प्रतिषेधकल्पनैव सत्यमिति निरस्तमभावैकान्तस्य प्रतिषेधादिति भावः । 20 विधिकल्पनाया एव सत्यत्वात्तयैकमेव वाक्यं स्यादित्याशंकायामाह स्यान्नास्त्येव घट इति । विध्येकान्तस्य निराकरणेन प्रतिषेधकल्पनाया अपि सत्यत्वान्नैकमेव वाक्यमिति भावः । धर्मान्तराप्रतिषेधकं प्राधान्येन प्रतिषेधविषयकत्रोधजनकं वाक्यमिदम् । ननु सदर्थप्रतिपादनाय विधिवाक्यमसदर्थप्रतिपादनाय च निषेधवाक्यमिति वाक्यद्वयमेवास्तु, प्रमेयान्तरस्य शब्दविषयस्यासम्भवादिति शंकानिरासायाह स्यादस्ति नास्ति च घट इति । तथा 25 च प्रधानभावेनार्पितस्य सदसदात्मनो वस्तुनः प्रधानभूतैकैकधर्मात्मकादर्थादर्थान्तरत्वसिद्धेः सत्ववचनेनैवासत्त्ववचनेनैव वा क्रमार्पितयोः प्रधानीभूतसदसत्त्वयोः प्रतिपादयितुमश
१. ननु सामान्यविशेषघटित सप्तभङ्गीवाक्यस्य घटः स्यात्सामान्यं स्याद्विशेष इत्यादिरूपस्यैकधर्मिण्यविरुद्ध विधिनिषेधात्मक बोधजनकत्वाभावेन लक्षणस्याव्याप्तिप्रसङ्गे त्वाह- सामान्यस्येति ।