________________
न्यायप्रका
सप्तभङ्गी ]
न्यायप्रकाशसमलङ्कृते नित्यानित्यत्वादिनानाधर्मकरम्बित इत्यर्थः । सप्तभङ्गीमिति, सप्तानां भङ्गानां समाहारस्ता. मिति विग्रहः । ननु घटोऽस्तीत्यादिवाक्यानां सप्तभङ्गीसंस्पर्शशून्यत्वेऽपि अर्थप्रापकत्वेन प्रमाणत्वात्कथं सप्तभङ्गीसमनुगतानामेव प्रामाण्यमित्याशङ्कायामाह घटोऽस्तीति, अर्थप्रापकत्वमात्रेणेति किश्चिदर्थप्रापकत्वेनेत्यर्थः मात्रपदेन परिपूर्णार्थप्रकाशकत्वाभावः सूच्यते । लोकापेक्षया प्रामाण्येऽपीति, तद्वति तत्प्रकारकत्वरूपलौकिकप्रामाण्यवत्वेऽपीत्यर्थः, वास्तविक- 5 प्रामाण्याभावे हेतुमाह पूर्णार्थेति । अत्र हेतुमाह सप्तेति ।।
का नाम सप्तभङ्गीत्यत्राह- -
तत्र प्रश्नानुगुणमेकर्मिविशेष्यकाविरुद्धविधिनिषेधात्मकधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं सप्तभङ्गीत्वम् ।
तत्रेति । प्रच्छकप्रश्नज्ञानप्रयोज्यत्वे सत्येकवस्तुविशेष्यकाविरुद्धविधिप्रतिषेधात्मकधर्म: 10 प्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं लक्षणार्थः । वक्ष्यमाणवाक्यसप्तके लक्षणमिदमव्याहतम् । वक्ता हि प्रच्छकप्रश्नज्ञानेन विवक्षति ततश्च वाक्यं प्रयुनक्ति, अतस्सप्तवाक्यसमुदायस्य साक्षात्प्रश्नज्ञानप्रयोज्यत्वाभावेऽपि परम्परया तत्सत्त्वान्न क्षतिः । एकस्मिन् वस्तुनि घटादौ द्रव्यक्षेत्रकालभावापेक्षया सत्त्वस्यासत्त्वस्य, कथञ्चित्सदसत्त्वस्य, कथञ्चिदवक्तव्यत्वस्य कथश्चित्सत्त्वावक्तव्यत्वयोः, कथञ्चिदसत्त्वावक्तव्यत्वयोः, कथञ्चित्सत्त्वासत्त्वावक्तव्यत्वानां 15 च सत्त्वेन तादृशवाक्यसप्तकाद्बटादिरूपैकवस्तुविशेष्यकाविरुद्धसत्त्वादिप्रकारकबोधस्योदयेन लक्षणसमन्वयः। घटोऽस्ति पटो नास्तीत्यादिनानावस्तुनि सत्त्वासत्त्वादिबोधकवाक्येऽतिप्रसङ्गवारणायकर्मिविशेष्यकेति । एकस्मिन्नेव धर्मिणि प्रत्यक्षादिविरुद्धविधिनिषेधबोधकवाक्यसप्तके व्यभिचारवारणायाविरुद्धेति । विरोधस्फूर्ती वाक्यस्याबोधकत्वे तदनुपादेयमेव । घटस्स्यादस्तीत्यादिद्वित्रादिवाक्यसमुदाये व्यभिचारवारणाय सप्तेति । विवक्ष्यमाणसप्तवाक्यघटि. 20 तोदासीनवाक्ययुतसमुदाये व्यभिचारवारणाय सप्तवाक्यपर्याप्तेति । सत्यन्तन्तु नाव्याप्त्यादिवारकमपि तु प्रष्टप्रश्नानां सप्तविधातिरिक्तत्वाभावेन वाक्यानामुत्तररूपाणामपि सप्तविधत्वमेवेति सूचनायोपात्तम् । एकस्मिन् धर्मिणि रूपरसादिधर्मसप्तकबोधकेऽतिप्रसङ्गवारणाय सत्त्वासत्त्वादिबोधक विधिनिषेधात्मकधर्मपदम् । नयसप्तभङ्गया अपि लक्ष्यत्वे न तत्रातिव्याप्तिः, यदि तु प्रमाणनयसप्तभङ्गयोः पृथक्पृथगेव लक्ष्यत्वं तर्हि सकलादेशत्व- 25 मप्यत्र विवक्षणीयम्॥
तानि कानि वाक्यानीत्यत्राह