________________
पाक्यम् । ]
न्यायप्रकाशसमलङ्कते
:४११: रूढत्वेन वर्णसंघातत्वसम्भवात् अन्यथा सम्बोधनत्वज्ञानाभावप्रसङ्गः स्यात् । तादृशस्थले पदान्तरवर्तिवर्णान्तरापेक्षणरहितत्वविशिष्टशक्तिमद्वर्णत्वस्यैव वा पदत्वात् ॥
अथ वाक्यलक्षणमाचष्टे
स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितपदापेक्षणरहितः परस्परसहकारिपदसमूहो वाक्यम् ॥
स्वार्थप्रत्यायन इति । स्वघटकानां परस्परसहकारितया व्यवस्थितानां पदानां स्वाघटकपदापेक्षारहितानां समुदायस्वार्थप्रत्यायनशक्तियुक्तो वाक्यमित्यर्थः, न च यत्सत्तत्सर्वं परिणामि यथा घटः संश्च शब्द इति साधनवाक्यं कथं भवेत् ? तस्मात्परिणामीत्याद्याकांक्षणादिति वाच्यम् , तादृशाकांक्षानुदयो यस्य तदपेक्षयैव तस्य वाक्यत्वात् नान्यापेक्षया, निरा. कांक्षतायाः प्रतिपत्तृधर्मत्वेन वाक्ये उपचारात्, तस्याचेतनत्वात् । स चेत् प्रतिपत्ता साध- 10 नवाक्यज्ञानेऽपि निगमनमपेक्षते तर्हि तदपेक्षत एवेति न तं प्रति तावन्मात्रस्य वाक्यत्वं, तावता वाक्यार्थप्रतिपत्तावपि परापेक्षायां पश्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गेन न क्वचिन्निराकांक्षत्वसिद्धिप्रसङ्गस्स्यादिति । दश दाडिमानि षडपूपाः कुण्डमजाजिनमित्यादि पदसंघातस्य परस्परनिरपेक्षस्य पदसंघातत्वेऽपि न वाक्यत्वं परस्परसापेक्ष- . पदसमूहत्वाभावात् । तथा च परस्परसापेक्षाणां पदानां निरपेक्षस्समुदायो वाक्यमिति 15 निष्कर्षः । निरपेक्षपदश्च चैत्रः स्थाल्यां पचतीति कर्मपदरहितेऽतिव्याप्तिवारणाय । ननु ' स्फटिकाकृतिनिर्मलः प्रकाममि' त्यादौ वाक्य आकृतिपदघटितत्वेनाधिकेऽतिव्याप्तिवारणार्थं विशेषणान्तरनिवेशप्रसंगः, न च तत्तदोषाभाव कूटविशिष्टपदसमुदायत्वं वाक्यत्वमुच्यते न्यूनत्वाधिकत्वादिकं च दोष एवेति न तत्रातिव्याप्तिरिति वाच्यमननुगमादिति चेन्नाऽऽकांक्षायोग्यतासत्तिमत्पदसमूहस्यैव वाक्यत्वात् तत्राकांक्षा अभिधाना- 20 पर्यवसानं, अभिधानं पदं तस्यापर्यवसानमन्वयाननुभावकत्वम् , तथा च यस्यपदस्य समभिव्याहृतयत्पदव्यतिरेकप्रयुक्तं यादृशान्वयाननुभावकत्वं तादृशान्वयाननुभवे समभिव्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकांक्षा, अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपदव्यतिरेकप्रयुक्तं न तु कर्मत्वादिपदस्य, घटादिपदसत्त्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकांक्षा, न तु घट: 25 कर्मत्वमित्यादाविति, योग्यता चैकपदार्थेऽपरपदार्थसंसर्गवत्त्वम् , न चैकविध्यर्थयोः कृतीष्टसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम् , एकवृत्तिविषयेऽपरवृत्तिविषयसंसर्गवत्त्वस्यैव तदर्थत्वात् । आसत्तिस्तु एकपदार्थोपस्थित्यव्यवधानेनापर