________________
:४१०: तत्त्वम्यायविभाकरे
[षष्ठकिरणे - सोऽयमिति । व्यावर्णितस्वरूपो वचनात्मकोऽयमित्यर्थः । तत्र वर्ण लक्षयति भाषावर्गणेति, अष्टविधासु वर्गणासु भाषायोग्या या वर्गणा तदात्मकपरमाणुभिरारब्धो यो मूर्तिमानकारादिस्स वर्ण इत्यर्थः । परमाण्वारब्ध इति पदेन वर्णस्य पौलिकत्वमादर्शितम् , तत्र मूर्तिमत्त्वं हेतुगर्भविशेषणम् , तथा च यो मूर्तिमान्स पौद्गलिकः 5 यथा घटादयः, मूर्तिमांश्च वर्णस्ततः पौगलिक इति भावः । न च स्पर्शशून्या
श्रयत्वादतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् पूर्व पश्चाच्चावयवानुपलब्धेः सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद्गगनगुणत्वाच्च न वर्णः पौद्गलिक इति वाच्यं सर्वेषां हेत्वाभासत्वात् , तत्र न प्रथमः, शब्दपर्यायस्याश्रयो हि भाषावर्गणा तत्र च स्पर्शो निर्णीयत
एव, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथा10 विधगन्धाधारद्रव्यपरमाणुवत् , न द्वितीयो गन्धद्रव्येण व्यभिचारात्, वर्तमानजात्यकस्तूरि
कादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति बहिश्च निर्याति । न तृतीयः तडिल्लतोल्कादिभिरनैकान्तिकत्वात् । चतुर्थोऽपि गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारी, नासायां निविशमानस्य गन्धद्रव्यादेस्तद्विवरद्वारदेशोद्भिन्न मथुप्रेरकत्वादर्शनात् । नापि पञ्चमः, नाका
शगुणश्शब्दोऽस्मदादिप्रत्यक्षत्वाद्रूपादिवदित्यनुमानेनासिद्धेस्तस्मात्स पौद्गलिक एवेति भावः । 15 ननु स्वार्थप्रत्यायनशक्तिमानेव शब्दोऽत्र विवक्षितो न ताइक शब्दत्वं वर्णे निरर्थकत्वा
दित्याशङ्कायामाह घटादीति, तथा च घटादिसमुदायघटका वर्णाः प्रत्येकमर्थवन्तः तद्व्यत्ययेऽर्थान्तरगमनात् तस्य व्यत्यये हि राक्षसाः साक्षरा इत्यादावर्थान्तरगमनं दृश्यते तस्मादवश्यं वर्णा अर्थवन्तः, उपलक्षणोऽयं हेतुस्तेन वर्णत्वाद्धातुप्रत्ययनिपातवत् वर्णविशे
पानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययात् यथा प्रतिष्ठत इत्यत्र प्रशब्दानुपलब्धौ प्रस्थानरूपस्यार्थ20 स्यासम्प्रत्ययादित्यादयो हेतवोऽत्र सङ्ग्रह्यन्ते ।
अथ पदलक्षणमाहस्वार्थप्रत्यायने शक्तिमान पदान्तरघटितवर्णापेक्षणरहितः परस्परसहकारिवर्णसंघातः पदम् ॥
स्वार्थेति । स्वार्थबोधजनकशक्तिमानित्यर्थः, पदान्तरेति पदान्तर्वर्तिवर्णान्तरजनितोप25 कारपराङ्मुख इत्यर्थः, परस्परेति, अर्थबोधजनने परस्परसहकारिभावेन वर्तमानानां
वर्णानां यस्संघात आनुपूर्वीत्यर्थः । ननु हOदिवाचकैकाक्षराकारादीनां कथं पदत्वं परस्परसहकारिवर्णसंघातरूपत्वाभावात् , न च प्रथमाद्वितीयादिविभक्तिसहितत्वेनादोष इति वाच्यम् सम्बोधने क्वचिद्विभक्तेर श्रूयमाणत्वेन तत्राव्याप्तेरिति चेन्न, अश्रुताया अपि विभक्तेर्बुद्धया