________________
सदा ]
भ्यायप्रकाशसमलङ्कृते वादात्म्यापन्नयोस्त योर्वाच्यवाचकत्वं युक्तं विरुद्धधर्माध्यासेन तयोस्तादात्म्यस्यैवासम्भवात् तस्मान्न किञ्चिद्वाच्यं वाचकं वा विद्यत इति मतमपास्तम् । शब्दार्थयोर्योग्यताभिधानसम्बन्धस्य सद्भावात् , अङ्गुल्यो करिणां शतमित्यादावर्थाभावेऽपि नयनरूपयोरिव योग्यतोपलम्भात् , नहि कलशरूपेण समं चक्षुषस्तादात्म्यं तदुत्पत्तिा समस्ति । न च योग्यतायास्सम्बन्धत्वे शब्दस्येवार्थस्यापि वाचकत्वं स्यादिति वाच्यं ज्ञानज्ञेययोर्जाप्यज्ञापकशक्तिवत्पदार्थानां प्रति- 5 नियतशक्तिकत्वात् , सामान्यविशेषवद्वस्तुबोधकत्वाञ्च न शब्दस्य वाचकत्वासम्भवोऽपि, सामान्यविशेषवतोऽर्थस्य संकेतव्यवहारकालानुगामित्वेन प्रतीयमानतया न विशेषवाचकत्वपक्षोपात्तदोषोऽपि । सामान्य विशेषात्मनि स्वलक्षणे संकेतकरणात् । न चानन्त्याव्यक्तीनां परस्पराननुगमाच संकेतकरणानुपपत्तिरिति वाच्यम् , समानपरिणत्यपेक्षया क्षयोपशम. विशेषाविर्भूततर्काख्यप्रमाणे व्यक्तीनां प्रतिभासमानतया सङ्केतविषयत्वसम्भवादिति संक्षेपः॥ 10
ननु प्रदीपः प्रकाशमानो यथाऽन्यानपेक्ष एवं स्वसन्निहितं शुभमशुभं वा भावं प्रकाशयति तस्मात्तस्यार्थप्रकाशकत्वं स्वाभाविकं तथा प्रयुज्यमानश्शब्दोऽपि श्रुतिगतस्सत्ये वाऽसत्ये वा संगते वाऽसङ्गते वा सफले वा निष्फले वा सिद्धे वा साध्ये वा वस्तुनि प्रतीतिमुत्पादयत्यतोऽस्यार्थबोधजननसामर्थ्य स्वाभाविकमुच्यते, परन्त्वयं संकेतसापेक्षः पदार्थप्रतीतिजनकः इति प्रदीपतोऽस्य विशेषः, एवञ्चार्थबोधसामर्थ्यमेवाऽस्य स्वाभाविकं 15 न तु स्वनिष्ठयाथार्थ्यांयाथार्थे अपि स्वाभाविके इत्याशयेनाह
वक्तृगुणदोषाभ्याश्चास्य याथार्थ्यायाथायें ॥ वक्तगुणदोषाभ्याश्चेति । चस्त्वर्थे, तथा चास्य याथार्थ्यायाथार्थे न स्वभावप्रयुक्त किन्तु पुरुषगुणदोषप्रयुक्ते इति भावः । पुरुषस्य गुणाः करुणादयः, दोषाश्च द्वेषादयः, यदि ते स्वाभाविके स्यातां तर्हि प्रतारकतद्भिन्नप्रयुक्तवाक्येष्वर्थव्यभिचाराव्यभिचारनियमो न 20 स्यात् तथा च सम्यग्दर्शिनि पुरुषे शुचौ वक्तरि यथार्था शाब्दी प्रतीतिरन्यथा तु मिथ्यार्थेति भावः ॥
अथ तं विभजते• सोऽयं शब्दो वर्णपदवाक्यरूपेण त्रिविधः। भाषावर्गणात्मकपर.. माण्वारब्धो मूर्तिमानकारादिवर्णः । घटादिसमुदायघटकवर्णानामपि 25
प्रत्येकमर्थवत्वमेव । तद्व्यत्ययेऽर्थान्तरगमनात् ॥